________________ 101 168 कल्पलताविवेके टमापक्षश्च तदा राजाश्रयाऽमात्यादिप्रकृतिवर्गन्यायेन गुणानाश्रित्य तिष्ठन्ती गुणपरतन्त्रस्वभावा न तु गुगरूपैवेत्यर्थः / किं पुनरेवं विकल्पनस्य प्रयोजनमित्यभिधीयते / यदि गुणाः सङ्घटना चेत्येकं तत्त्वं सङ्घटनाऽऽश्रया वा गुणास्तदा सङ्घटनाया इव गुणानामनियतविष यत्वप्रसङ्गः / गुणानां तु माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशङ्गारविषय एव / रौद्राद्भता5 दिविषयमोजो, माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो व्यवस्थितः / सङ्घटनायास्तु स विघटते / तथा हि शङ्गारेऽपि दीर्घसमासा सा दृश्यते, रौद्रादिष्वसमासा चेति / तत्र शृङ्गारे दीर्घसमासा यथा-मन्दारकुसुमरेणुपिञ्जरितालका इति / नात्र शङ्गारः कश्चिदित्यन्यदुदाहियते / अनवरतनयनजललवनिपतनपरिमुषितपत्रलेखान्तम् / करतलनिषण्णमबले वदनमिदं कं न तापयति // इत्यादौ / एषा हि प्रणयकुपितनायिकाप्रसादनायोक्ति यकस्य / तथा रौद्रादिष्वप्यसमासा दृश्यते / यथा यो यः शस्त्रमित्यादौ / तस्मान्न सङ्घटनारूपा न च सङ्घटनाश्रया गुणा इति व्याख्यानद्वयमयुक्तमित्यर्थः / ननु यदि सङ्घटना गुणानां नाश्रयस्तत् किमालम्बना एते परिकल्प्यन्ताम् / उच्यते, प्रतिपादितमेवैषामालम्बनम् / 15- "तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः / अङ्गाश्रितास्त्वलङ्काराः .... .... // " इत्यत्रान्तरे / अथवा भवन्तु शब्दाश्रया एव गुणाः / न चैषामनुप्रासादितुल्यत्वम् / यस्मादनुप्रासादयोऽनपेक्षितार्थशब्दधर्मा एव प्रतिपादिताः / गुणास्तु व्यङ्ग्यविशेषावभासिवाच्य प्रतिपादनसमर्थशब्दधर्मा एव / शब्दधर्मत्वं चैषामन्याश्रयत्वेऽपि शरीराश्रितत्वमिव शौर्या20 दीनाम् / ननु यदि शब्दाश्रया गुणास्तत्सङ्घटनारूपत्वं तदाश्रितत्वं वा तेषां प्राप्तमेव / न 1. गुणायत्ता गुणमुखप्रेक्षिणी न त्वाधेयरूपा / न त्वाराधेयरूपा ग // 2. सङ्घटनाधर्मा इत्यर्थः / 3. प्रथमपक्षे तादात्म्येन समानयोगक्षेमत्वादितरत्र तु तद्धर्मत्वेनेति भावः // 4. योऽयं गुणेषु नियम उक्तः // 5. शब्दार्थालम्बनत्वे हि तदलङ्कारेभ्यः को विशेष इति भावः / 6. नायमाचार्यस्य स्थितः पक्षः / आत्मनिष्ठत्वेऽपि // 7. ततः // 8. ननु शब्दैधर्मत्वं शब्दकात्मकत्वं वा तावतास्तु, किमियं मध्ये सङ्घटनानुप्रवेशितेत्याशक्य स एव पूर्वपक्षवाद्याह नहीति / उपचारेण यदि शब्देषु गुणास्तदेदं तात्पर्य शृङ्गारादिरसाभिव्यञ्जकवाच्यप्रतिपादनसामर्थ्यमेव शब्दस्य माधुर्य, तच्च शब्दगतम् / विशिष्टव सङ्घटना लभ्यते / अथ सङ्घटना न व्यतिरिक्ता काचिदपि तु सङ्घटिता एव शग्दास्तदा शब्दाश्रितं तत् सामर्थ्यमिति सङ्घटनाश्रितमेवेत्युक्तं भवतीति तात्पर्यम् / वाक्यार्थो न तु सामान्यरूपः पदार्थः / वाक्यत्वमनापन्नाः / पदानि / [1]