________________ 171 शब्दालङ्कारदर्शनम् सम्बद्धव्यापाराश्रयेण दीर्घसमासाऽपि वा। तदाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या / सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी / स हि सर्वरससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् / प्रसादातिक्रमे ह्यसमासाऽपि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति / तदपरित्यागे मध्यमसमासापि न न [तत् ! ] प्रकाशयति / तस्मात् सर्वत्र प्रसादोऽनुसतव्यः / अत एव च यो यः शस्त्रं बिभत्तिं 5 स्वभुजगुरुमद इत्यादौ यद्योजसः स्थितिर्नेष्यते, तत्प्रसादाख्य एव गुणो न माधुर्यम् / न चाऽचारुत्वमभिप्रेतरसप्रकाशनात् / तस्मात् सङ्घटनाया यथोक्तादौचित्याद्विषयनियमोऽस्तीति तस्या अपि रसव्यञ्जकत्वम् / तस्याश्च रसाभिव्यक्तिनिमित्तभूताया योऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् / नियामकान्तरमप्यस्तीत्याह 10 विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति / काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा / / वक्तवाच्यगतौचित्ये सत्यपि विषयाश्रितर्मन्यदौचित्य सङ्घटनां नियच्छति / यतः काव्यस्य प्रभेदाः-मुक्तकं संस्कृतप्राकृताऽपभ्रंशनिबद्धं संदानितकविशेषककलापककुलकानि पर्याबन्धः परिकथा खण्डकथासकलकथे सर्गबन्धोऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः। 15 तदाश्रयेणापि सङ्घटना विशेषवती भवति / द्वाभ्यां क्रियासमाप्तौ सन्दानितकम् / त्रिभिविशेषकम् / चतुर्भिः कलापकम् / पञ्चप्रभृतिभिः कुलकम् / इति क्रियासमाप्तिकृता भिद इति द्वन्द्वेन निर्दिष्टाः / अवान्तरक्रियासमाप्तावपि वसन्तवर्णनायेकवर्णनीयोद्देशेन प्रवृत्तः पर्याबन्धः / एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणाऽनन्तवृत्तान्तवर्णनप्रधाना परिकथा / एकदेशवर्णना खण्डकथा / समस्तफलान्तेतिवृत्तवर्णना सकलकथा / द्वयोरपि 20 प्राकृतप्रसिद्धत्वाद् द्वन्द्वेन निर्देशः। पूर्वेषां तु मुक्तकादीनां भाषायामनियमः। महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रधानः सर्गबन्धः संस्कृत एव / अभिनेयार्थं नाटकादिदशरूपकं नाटिकातोटकरासकप्रकरणिकाद्यवान्तरप्रपञ्च 1. तस्या दीर्घसमाससङ्घटनाया य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यस्तस्य यासावपेक्षा दीर्घा सङ्घटनां प्रति, सा वैगुण्ये हेतुः // 2. व्यञ्जकस्य स्त्रवाच्यस्यैवाप्रत्यायनादिति भावः / -स्ववाच्यस्यैवाप्रतिपादनादिति-ग // 3. प्रसादेनैव स रसः प्रकाशितो न न प्रकाशित इत्यर्थः // 4. यदि गुणाः सङ्घटनैकरूपास्तथाऽपि गुणनियम एव सङ्घटनाया नियमः / गुणाधीनसङ्घटनापक्षेऽप्ये सङ्घटनाया नियामकत्वेन यदक्तवाच्यौचित्यं हेतुस्वेनोक्तं तद्गुणानामपि नियमहेतुरिति पक्षत्रयेऽपि न कश्चिद्विप्लव इत्येतद्गुणानाश्रित्य तिष्ठन्तीत्यर्थाविरोधप्रतिपादकस्य गुणाश्रयेण व्यवस्थानमप्यविरुद्धमित्यस्य तात्पर्यम् / -विप्लव इति तात्पर्यम् / ग. // 5. संघातविशेषः काव्यप्रभेदरूपः / ख. पुस्तके एव // 6. विषयाश्रयमप्यन्य-स्त्र.॥