________________ शब्दालकारदर्शनम् अपणामियं असमर्पितमपीति पदार्थविभावनालङ्कारेण वाच्येन कविप्रौढोक्तिनिष्पन्नेन मधुमासप्रौडिमनि भाविनि किं भविष्यतीत्येवंभूतं वस्तुमात्रं ध्वन्यते / वाक्यप्रकाशतायामपि क्रमेणोदा[हरणानि ] क्षितिपतिः स्वमनायत यत्क्षणं दुरमनायत यच्च मुहुर्मुहुः / / इदमवेक्ष्य यथा सुमनायते स किल दासपतेरगमद् गृहम् // अत्र पितुः शन्तनोः कृते भीष्मः स्वयं सत्यवतीम् आनयतेत्येवंविधः कविप्रौढोक्त्या निधो वाक्यार्थः स्वशक्त्या इदं वस्तु ध्वनति / कामावस्थाभिरविरतं विडम्ब्यमाने पितरि दृष्टे भीष्मोऽपि नामानुचितप्रायस्यापि दासाधिपतेर्गुहं जगामेत्यनुचितकारित्वमपि परमुचितकारित्वमस्येति / तदेव चाऽत्र प्रधानं वस्तु, धर्मवीरोपयोगात् / पुत्रक्षयेन्धनघनप्रविजृम्भमाणस्नेहोत्थशोकविषमज्वलनाऽभितप्तः / प्रालेयशीतलममस्त स बाह्यवह्निमहाय देहमथ संविदधे सरित्सात् // अत्र वशिष्ठः पुत्रक्षयोपतप्तोऽग्निं प्रविष्टोऽपि न तेन दग्ध इत्यय वाक्यार्थः कविप्रौढोक्त्या निबद्धो वस्तुरूपः शोकस्य बाह्यवढेराधिक्यमिति व्यतिरेकालङ्कार ध्वनति / स वक्तुमखिलानिति / चमढियमाणसेति / तत्रैव कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरेण वस्तुना वस्तुनोऽलङ्कारस्य वाऽल- 15 कारणालङ्कारस्य वस्तुनो वा व्यङ्ग्यत्वे पदप्रकाशता यथा याचन्न यात्युपचयं न च यावदेषु प्रेम्णा धृति वितनुते सुहृदां स पक्षः / प्रोन्मूलनेन [?] तु तावदरिप्ररोहान् विध्वंसयध्वमिति मन्त्रमदात् स कर्णः // ' अत्र वक्तुः प्रौढोक्त्याऽरिप्ररोहानिति पदस्य योऽर्थो रोढुं स्थितिं लब्धुमेते तावत् प्रारब्धाः पाण्डवा इति तेनेदं वस्तु ध्वन्यते / अथैव सूच्छेदा यदि न नाश्यन्ते तदमी 20 यत्नशतैरपि दुरुच्छेदा एव भविष्यन्तीति / यथा च-सत्यं मनोरमाः रामा इति / अत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दोऽर्थशक्तिमूलतयेदं वनति / सर्व एवाऽमी कामा विभूतयश्च जीवनमात्रोपयोगिनः / तदभावे हि सद्भिरपि तैरसद्रूपायते / तदेव च जीवितं प्राणधारणरूपत्वात् / प्राणवृत्तेश्च चाश्चल्यादनास्थापदमिति विषयेषु वराकेषु किं दोषोद्घोषणदौर्जन्येन / निजमेव तु जीवितमुपालम्भ्यम् / तदपि वा निसर्गचञ्चल- 25 मिति न सापराधमित्येतद्गाढं वैराग्यमिति / सहि णवणिहुवणसमरम्म अंकपाली सहीए णिविडाए / हारो णिवारिओ च्चिय उव्वरयत्तो तदो कहं रमियं / 21