________________ कल्पलताधिवेके भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः / कस्य नानन्दनिःष्यन्दं विदधाति सदागमः // भुक्तिः कान्तोपभोगोऽपि, मुक्तिरुद्वेगव्यापारादपि, एकान्तः सङ्केतस्थानमपि, सतः सुन्दरस्याऽऽगमनमपि / अत्र काचित् सङ्केतदायिनमेवं मुख्यया वृत्त्या शंसतीति सदागम5 पदेन प्रकाश्यते / अर्थयोश्च वैसादृश्यानोपमेति / वाक्यप्रकाशता यथा शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् / यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च // अत्र विरुद्धावपि त्वदनुवर्तनाथमेकं कार्य कुरुत इति व्यत्ययेन ध्वन्यते / एवं 10 चत्वारः शब्दशक्त्युद्भवप्रभेदा इति / तस्यैवार्थशक्त्युद्भवे प्रभेदे कविप्रौढोक्तिमात्रनिष्पन्नशरीरेण वस्तुना वस्तुनो व्यङ्ग्यत्वे पदप्रकाशता यथा बिंबाहरे पियाणं णिवेसियं कुसुमबाणेण / ____ अत्र कुसुमबाणेनेति पदार्थो वस्तुमात्रस्वभावः कामदेवस्य कविप्रौढोक्त्याऽनुदाहृत15 तीक्ष्णोपायसौन्दर्यरूपं वस्तुमात्रं ध्वनति / वस्तुनवाऽलङ्कारस्य व्यङ्ग्यत्वे यथा-वीराण रमइ. इति / अत्र वीराणामिति पदार्थो वस्तुमात्रस्वभावः कविप्रौढोक्तिप्रभावात्कुचयोः कुम्भस्थलस्य चोपमामलङ्कारं ध्वनति / अलङ्कारेणाऽलङ्कारस्य व्यङ्ग्यत्वे यथा-होइ ण गुणाणुराओ इति / अत्र चन्द्र इत्यस्याऽऽह्लादकत्वं यदर्थस्तत्प्रियामुखेऽपीति रूपकमुच्यमानं कविप्रौढोक्तिमहिम्ना व्यतिरेकस्य व्यञ्जकम् / एतद्रूपकमुखेनैव चार्थान्तरन्यासोऽपि 20 व्यतिरेकं व्यनक्तीति न पूर्वापरल्याघातः / अलङ्कारेणैव वैस्तुनो व्यङ्ग्यत्वे यथा चूअंकुरावयंसं छणपसरमहग्घमणहरसुरामोयं / अपणामियं पि गहियं कुसुमसरेण महुमासलच्छीए मुहं // चूताङ्करावतंसं महार्पणोत्सवप्रसरेण मनोहरसुरम्यमन्मथदेवस्य आमोदश्चमत्कारो 25 यत्र, महार्घशब्दस्य परनिपातः प्राकृते नियमाभावात् / छण इत्युत्सवः / असमर्पितमपि गृहीतं कुसुमशरण मधुमासलक्ष्म्या मुखं प्रारम्भः वक्त्रं च, तच्च सुरामोदयुक्तं भवति / अत्र 1. प्राधान्यरूपया न स्वभिधारूपया // 2. शनिरशनिरित्यादिरूपेण // 3. च वस्तुनो ग / /