________________ शब्दालङ्कारदर्शनम् निःसाधनयोस्तयोरभावात् / केषाञ्चिदिति चाऽस्य विशेषे सङ्क्रान्तिः। अतिक्रामतीत्यस्य च क्रियामात्रे सङ्क्रान्तिः / काल इत्यस्य च सर्वव्यवहारे सङ्क्रान्तिरिति / ____एवं कारिकाप्रथमा लक्षितांश्चतुरः प्रकारानुदाहृत्य द्वितीयकारिकार्द्धस्वीकृता एकोनत्रिंशत् प्रकाराः क्रमेणोदाहियन्ते / उभयशक्तिमूलो हि वाक्यप्रकाश एव भवति / तत्र विवक्षिताऽभिधेयस्याऽनुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवेऽलङ्कारध्वनिप्रभेदे पदप्रकाशता 5 यथा प्रातुं धनैरर्थिजनस्य वाञ्छां देवेन सृष्टो यदि नाम नाऽस्मि / पथि प्रसन्नाम्बुधरस्तडागः कूपोऽथवा किं न जडः कृतोऽहम् / / अत्र हि जड इत्येतत् पदं निर्विष्णेन वक्त्रा आत्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया तडागः कूपोऽपि जड इति तदुभयसमानाधिकरणतां स्वशक्त्या प्रतिपद्यत 10 इति रूपकं ध्वन्यते / प्रातुमिति पूरयितुं, धनैरिति बहुवचनं यो येनार्थी तस्य तेनेति सूचनार्थम् / अत एवार्थिग्रहण जनस्येति / बाहुल्येन हि लोको धनार्थी न तु गुणैरुपकारार्थी / दैवेनेत्यशक्यपर्यनुयोगेनेत्यर्थः / अस्मीति अन्यो हि तावदवश्यं कश्चित् सृष्टो न त्वहमिति निर्वेदः / प्रसन्नं लोकोपयोगि अम्बु धारयतीति / कूपोऽथवेति / लोकैरप्यलक्ष्यमाण इत्यर्थः / आत्मसमानाऽधिकरणतयेति जडः किंकर्तव्यतामूढ इत्यर्थः / अथ च 15 तडागः कूपश्च जडो योऽर्थिता कस्य कीदृशीत्यसम्भवद्विवेक इति / अत एव च जडः शीतलो निर्वेदसन्तापरहितस्तथा जडः सततजलयोगितया परोपकारसमर्थः / अनेन तृतीयार्थेनायं जडशब्दस्तडागार्थेन पुनरुक्तार्थसम्बन्ध इत्येतदर्थोऽयं तडागसमानाधिकरणतया न योजनीयः / स्वशक्त्या-इति / शब्दशक्त्युद्भवत्वं योजितम् / तस्यैव वाक्यप्रकाशता यथाहर्षचरिते सिंहनादवाक्येषु-"वृत्तेऽस्मिन् महाप्रलये धरणीधारणायाऽधुना त्वं शेषः” / 20 मैहस्याऽऽसमन्तात् प्रलयो यत्र ताशि शोककारणभूते वृत्ते धरण्या राज्यधुराया धारणायाऽऽश्वासनाय त्वं शेषः शिष्यमाण इतीयता पूर्णे वाक्यार्थे, कल्पावसाने भूपीठभारोद्वहनक्षम एको नागराज इव नागराज एव वा दिग्दन्तिप्रभृतिष्वपि प्रलीनेष्वित्यर्थान्तरमुपमारूपकपर्यवसितं शब्दशक्त्या स्फुटमेव प्रकाशते / तत्रैव वस्तुध्वनिप्रभेदे पदप्रकाशता यथा 1. सुखदुःखयोः // 2. अति [अचि ?] कृतेऽर्शादि [ अर्श आदि ! ] द्वारेणायमर्थः / / 3. एष तृतीयो जलयोगितालक्षणोऽर्थो यस्य जडशब्दस्य // 4. भ्रातरि पितरि च विपन्ने निर्विष्णः श्रीहर्षों राज्यधुरामुद्वोढुं सिंहनादनाम्ना मन्त्रिणा प्रोत्साह्यते / प्रोत्साह्यतेऽत्र ग. // 5. उत्सवस्य // 6. सन्देहसङ्कर // 25