SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 158 कल्पलताविवेके तालक्षणेन निमित्तेन तत्त्वदृष्टाववधानं मिथ्यादृष्टौ च पराधीनत्वं ध्वनति / सर्वशब्दार्थस्य चाऽपेक्षिकतयाऽप्युपपद्यमानतेति न सर्वशब्दार्थाऽन्यथाऽनुपपत्त्याऽयमर्थ आक्षिप्तो मन्तव्यः / सर्वेषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशा व्यामोहजननी तत्त्वदृष्टिस्तस्यां संयमी जागर्ति कथं प्राप्येतेति / न तु विषयवर्जनमात्रादेव संयमीति यावत् / 5 यदि वा सर्वभूतनिशायां मोहन्यां जागर्ति कथामयं हेयेति / यस्यां तु मिथ्यादृष्टौ सर्वाणि भूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयस्तस्यां हि चेष्टायां नासौ प्रबुद्धः / एवमेव च लोकोत्तराचारव्यवस्थितः पश्यति च मन्यते च तस्यैवाऽन्तर्बहि:करणवृत्तिश्चरितार्था / अन्यस्तु न पश्यति न मन्यत इति तत्त्वदृष्टिपरेण भाव्यमिति तात्प र्यम् / एवं च पश्यत इत्यपि मुनेरित्यपि च न स्वार्थमात्रे विश्रान्तमपि तु व्यङ्ग्य एव 10 विश्राम्यति / यत्तच्छब्दयोश्च न स्वतन्त्रार्थतेति सर्व एवायमाख्यातसहायः पदसमूहो व्यङ्ग्यपरः / तस्यैवार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता यथा विसमइओ च्चिय काण वि काण वि वोलेइ अमयणिम्माओ / काण वि विसामयमओ काग वि अविसामओ कालो // अत्र हि अर्थान्तरसङ्क्रमितवाच्येन पदसमूहेन व्यवहारः / तथा हि विषमयितो विषमयतां प्राप्तः केषांचिद् दुष्कृतिनाम् अतिविवेकिनां वा, केषाञ्चित्सुकृतिनामत्यन्तमविवेकिनां वा अतिक्रामत्यमृतनिर्माणः, केषाञ्चिन्मिश्रकर्मणां विवेकाविवेकवतां वा विषाऽमृतमयः, केषामपि मूढप्रायाणां धाराप्राप्तयोगभूमिकारूढानां वा अविषाऽमृतः कालोऽतिक्रामतीति सम्बन्धः / विषामृतपदे च लावण्यादिशब्दवन्निरूढलक्षणारूपतया 20 सुखदुःखसाधनयोर्वर्तेते, विषं निम्बममृतं कपित्थमिति / न चाऽत्र सुखदुःखसाधने तन्मात्रविश्रान्ते, अपि तु स्वकर्त्तव्यसुखदुःखपर्यवसितेन च ते साधने सर्वथा न विवक्षिते, 1. यथायोगमत्यर्थमुपकारकत्वेनोपकार्यत्वेन च व्यङ्ग्यस्यात्यन्तमासन्न इति लक्षणीयोऽप्यों ध्वनित्वेन व्यपदिष्टः, दुस्तरसंसारवैराग्यं निरूपमनिवृतिसुखसमासन्नवं लोकोत्तरत्वं सन्मार्गदेशकस्वं चेत्यादिमुनीनां, तद्विपरीतं तु भूतानां धर्मसहस्रमत्र हि व्यङ्ग्यमिति / तद्विपरीतत्वं तु ग. // 2. वाघ्यायमानः // 3. मिथ्यादृष्टौ // 4. उपदेशपरता वाक्यस्य दर्शिता // 5. अपि तु परतन्त्रार्थतापरश्च निशादिरों व्यङ्ग्यविश्रान्त इत्यनयोरपि व्यङ्ग्य एव विश्रान्तिः // 6. विषामृतकिमादिशब्दा दुःखसुखदुष्कृतिप्रभृतिसामान्यरूपान्तरपरिणता नानाप्रकारान् स्वजनमरणतपश्चर्यादिकलत्रयोगपुत्रोत्पत्तिसम्पल्लाभादिजनितदुःखादिविशेषान् ध्वनन्ति / यदि वा निर्जरारूपत्वाविषह्यमाणकष्टफलत्वाभिमन्यमानस्वजनमरणादितपश्चर्यादिरूपदुःखविशेषादौ सक्रान्ता मोक्षनिराकाङ्क्षतादीन् भवनन्ति // 7. विषमयितां ग // 8. सुखदुःखसाधनमात्र //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy