________________ शन्दालङ्कारदर्शनम् कश्चिन्ममाज्ञां लवयिष्यतीति / ते इति यया तागपि तथा न गणितस्तस्यास्तवेत्यर्थः / तदपि तथाऽविकारेणोत्सवाऽऽपत्तिबुद्धया नेत्रविस्फारतामुखप्रसादादिलक्ष्यमाणया सोढं, येन प्रकारेणेदानी कुलजन इति यः कश्चित् पामरंप्रायोऽपि वधूशब्दवाच्य उच्चैः शिरो धत्ते / एवंविधाः किल वयं कुलवध्वो भवाम इति / अथ च शिरःकर्तनाऽवसरे त्वया शीघ्र कर्त्यतामिति तथा सोढं तथा उच्चैः शिरो धृतं यथाऽन्योऽपि कुलस्त्रीजन उच्चैः शिरो धत्ते। 5 नित्यप्रवृत्ततया एवं रावणस्य तव च समुचितकारित्वं नियूंढम् / मम पुनः सर्वमनुचितमेव पर्यवसितम् / तथा हि- राज्यनिर्वासनादिनिरवकाशीकृतधनुर्व्यापारस्याऽपि कलत्रमात्ररक्षणादिप्रयोजनमपि यच्चापमभूत्तत् सम्प्रति त्वय्यरक्षितव्यापन्नायामेव निष्प्रयोजनं तथाऽपि च तद्धारयामि / तन्नूनं निजजीवितरक्षवाऽस्य प्रयोजनत्वेन सम्भाव्यते / न चैतद्युक्तम् / रामेणेत्यसमसाहसरसत्वसत्यसन्धत्वोचितकारित्वादिव्यङ्ग्यधर्मान्तरपरिणतेनेत्यर्थः / प्रिये 10 इति शब्दमात्रमेवैतदिदानी संवृत्तम् / प्रवृत्तिनिमित्तं यत् प्रियशब्दस्य प्रेमनाम तदप्यनौचित्यकलङ्कितमिति शोकालम्बनोद्दीपनविभावयोगात् करुणरसो रामस्य स्फुटीकृतः / अत्र रामेणेत्येतत्पदं व्यञ्जकम् / _यथा वा-एमेय जणो तिस्सा इति / अत्र द्वितीयश्चन्द्रशब्दो व्यञ्जकः / एवमेवेति स्वयमविवेकाऽन्धतया / जन इति लोकप्रसिद्भिगतानुगतिकामात्रशरणः / तस्या 15 इत्यसाधारणगुणगणमहाघवपुषः / कपोलोपमायामिति / निर्व्याजलावण्यसर्वस्वभूतमुखमध्यवर्तिप्रधानभूतकपोलतलस्योपमायां प्रत्युत तदधिकगुणं वस्तु कर्त्तव्यम् / ततो दूरनिकृष्टं शशिबिम्ब कलङ्कव्याजजिह्मीकृतम् / एवं यद्यपि गड्डरिकाप्रवाहपतितो लोकस्तथाऽपि / यदि परीक्षकः परीक्षते तद्वराकः कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव / क्षयित्वविलासशून्यत्वमलिनत्वधर्मान्तरसङ्क्रान्तोऽस्यार्थः / अत्र च यथा व्यङ्ग्यधर्मान्तरसङ्क्रान्ति- 20 स्तथा पूर्वोक्तमनुसन्धेयम् / एवमुत्तरत्राऽपि / / अविवक्षितवाच्यस्य तिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा या निशा सर्वभूतानां तस्यां जागर्ति संयमी / यस्यां जाग्रति भूतानि सा रात्रिः पश्यतो मुनेः // अनेन हि वाक्येन न निशाऽर्थो न च जागरणार्थः कश्चिद्विवक्षितः / किं तर्हि 25 तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्याऽस्य व्यञ्जकत्वम् / तथा हि-निशायां जागरितव्यमैन्यत्र रात्रिवदासितव्यमिति किमनेनोक्तेन / उपदेश्य प्रति कस्यचिदुपदेशस्याऽसिद्धेः / तस्माद् बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तर 1. अथ चेत्यर्थः // 2. अनिशायाम् // 3. निशा जागतिं यस्यां रात्रिरिति शब्दाः // 4. इतरभूतानां स्वेतद्विपरीतं धनतीत्यर्थः /