SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 156 कल्पलताविवेक तदन्यस्येति / विवक्षिताऽभिधेयस्य सम्बन्धी यो द्वितीयो भेदः क्रमद्योत्यो नाम स्वभेदसहितस्तस्याऽपि प्रत्येकं पदवाक्यप्रकाशता / अविवक्षितवाच्यस्याऽत्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता, यथा धृतिः क्षमा दमः शौचं कारुण्यं वागऽनिष्ठुरा / मित्राणां चाऽनभिद्रोहः सप्तैताः समिधः श्रियः // यथा च कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् / यथा वा सरसिजमनुविद्धं शैवलेनाऽपि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति / इयमधिकमनोज्ञा वल्कलेनाऽपि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् // ' / एतेषूदाहरणेषु समिध इति, सन्नद्ध इति, मधुराणामिति च पदानि व्यञ्जकत्वाऽभिप्रायेणैव कृतानि / तथाहि- समिच्छब्दार्थस्याऽत्र सर्वथा तिरस्कारोऽसम्भवाद् / अत एव 35 च समिच्छब्देनाऽनन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां धृत्यादीनां लक्षयता सत्स्वेषु हस्तगतैव पुरुषाणां लक्ष्मीरिति वक्त्रभिप्रेतं ध्वन्यते / यद्यपि निःश्वासान्ध इत्यादुदाहरणादप्ययमों लभ्यते, तथाऽपि प्रसङ्गाद् बहुलक्ष्यव्यापित्वं दर्शयितुमुदाहरणान्तराण्युक्तानि / अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य योजनीयः, किं पुनरुक्तेन / सन्नद्धपदेन च अत्रा सम्भवत्स्वार्थेनोद्यतत्वं लक्षयता वक्त्रभिप्रेताः निष्करुणत्वाऽप्रतिकार्यत्वाऽप्रेक्षापूर्वकारि20 त्वादयो ध्वन्यन्ते / तथैव मधुरशब्देन सर्वविषयरञ्जकत्वतर्पकत्वादिकं लक्षयता सातिशयाऽभिलाषविषयत्वं नाऽत्राऽऽश्चर्यमिति वक्त्रभिप्रेतं ध्वन्यते / तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा _ प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा ___ सोढं तच्च तथा त्वया कुलजनो धत्ते यथोचैः शिरः / व्यर्थ सम्प्रति बिभ्रता धनुरिदं त्वद्व्यापदः साक्षिणा 25 रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् // रक्षःस्वभावत्वादेव यः क्रूरोऽनभिलयशासनत्वदुर्मदतया च प्रसह्य निराक्रियमाणः क्रोधान्धस्तस्यैतत्तावत् स्वैचित्तवृत्तिसमुचितमनुष्ठानं यन्मूर्द्धकर्त्तनं नाम मा अन्योऽपि 1. क्रोधरूपा /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy