________________ शब्दालङ्कारदर्शनम् उपेक्षितस्याऽत एव वाच्यायमानस्याऽविनयप्रच्छादनलक्षणस्याऽर्थस्य पुनर्व्यङ्ग्यत्वमेवेत्यस्मिन्ननुरणनरूपव्यङ्ग्ये ध्वनावन्तर्भावः / एवं विवक्षितवाच्यस्य ध्वनेस्तदाभासविवेके कृते सति अविवक्षितवाच्यस्याऽपि तं कर्तुमाह " अव्युत्पत्तरशक्तेर्वा निबन्धो यः स्खलद्गतेः / शब्दस्य स च न ज्ञेयः सूरिभिविषयो ध्वनेः // " अव्युत्पत्तेरिति / मध्येसमुद्रमिति / अत्र वडवामुखाग्निर्लक्ष्यते / तत्र च नास्ति प्रयोजनं न च रूढिरित्यव्युत्पत्तिः / यस्य तु वृत्ते शब्दं प्रवेशयितुमसामर्थ्य तस्याशक्तिः / यथा दशरश्मिशतोपमधुर्ति यशसा दिक्षु दशस्वपि श्रुतम् / 10 दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः // उपसंहरति " सर्वेष्वेव प्रभेदेषु स्फुटत्वेनाऽवभासनम् / यव्यङ्ग्यस्याऽङ्गिभूतस्य तत् पूर्ण ध्वनिलक्षणम् // " तदेवमविवक्षितवाच्यस्य विवक्षिताऽन्यपरवाच्यस्य च भेदवर्णनमर्थान्तरे सङ्क्रमित- 15 मित्यादिना, रसध्वनिरसवदलङ्कारयोविभजनं वाच्यवा चकचारुत्वेत्यादिना, गुणालङ्कारविभागस्तमर्थमवलम्बते इत्यादिना, दोषाणामनित्यत्वे युक्तिकथनं श्रुतिदुष्टादय इत्यादिना, रसादिध्वनेरानन्त्यप्रतिपादनं तस्याऽङ्गानामित्यादिना / संक्षेपेण तदङ्गानामङ्गत्वोक्तिः दिङ्मात्रं तूच्यत इत्यादिना, शब्दशक्तिमूलस्य ध्वनेः स्वरूपनिरूपणं श्लेषात्तस्यान्यताऽभिधानं च आक्षिप्त एवेत्यादिना, अर्थशक्त्युद्भवस्य तस्य स्वरूपविवेचनं अर्थशक्त्युद्भव- 20 स्थित्यादिना, अलङ्काराणां व्यङ्ग्यत्वेऽतिशयोदीरणं शरीरीकरणमित्यादिना, वस्त्वलङ्कारयोव्यङ्यव्यञ्जकत्वनैयत्येऽर्थशक्त्युद्भवस्यैव ध्वनेः स्वरूपपरामर्शनं व्यज्यन्ते वस्तुमात्रेणेत्यादिना, उभयभेदध्वन्याभासविवेकश्च यत्र प्रतीयमानोऽर्थ इत्यादिनेति द्वादशप्रमेयात्मकं भेदप्रभेदतद्भेदनिरूपणमिह मुख्यं प्रमेयम् / एवं व्यङ्ग्यमुखेन व्यञ्जकवाच्यमुखेन च ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जक- 25 पदवाक्यवर्णपदभागसङ्घटनामहावाक्यमुखेनैतत् प्रकाश्यते "अविवक्षितवाच्यस्य पदवाक्यप्रकाशता / तदन्यस्याऽनुरणनरूपव्यङ्ग्यस्य च ध्वनेः // " 1. न तु वाच्यायमानत्वम् / 2. छन्दसि /