________________ कल्पलताविवेक यथा कमलायरा ण मलिया हंसा उड्डाविया ण य पिउच्छा / केण वि गामतलाए अब्भं उत्ताणयं छूढं // पिउच्छेति हे पितृष्वसः। अत्र हि प्रतीयमानस्य मुग्धबध्वा जलधरप्रतिबिम्ब5 दर्शनस्य वाच्याङ्गत्वमेव / वाच्येनैव हि विस्मयविभावरूपेण मुग्धिमातिशयः प्रतीयते इति वाच्यादेव चारुत्वसम्पत् / वाच्यं तु स्वात्मोपपत्तयेऽर्थान्तरं स्वोपस्कारकवाञ्छया व्यनक्ति / यत्र च व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्षप्रतीत्या प्राधान्यमवसीयते तत्र व्यङ्ग्यस्याऽप्रधानत्वेन प्रतीतौ ध्वनेरविषयत्वम् / यथा वाणीरकुंडगुड्डीणसउणिकोलाहलं सुणंतीए / __घरकम्मवावडाए बहूए सीअन्ति अंगाई॥ अत्र दत्तसङ्केतचौर्यकामुकसमुचितस्थानप्राप्तिन्यमाना वाच्यस्यैवोपस्कुरुते / तथाहि-गृहकर्मव्यापृताया इत्यन्यपराया अपि, वध्वा इति सातिशयलज्जापारतत्र्यबद्धाया अपि, अङ्गानीति एकमपि न तोहगङ्गं यद्गाम्भीर्यावहित्थवशेन संवरीतुं पारितम् / सीदन्तीति। आस्तां गृहकर्मसम्पादनं स्वात्मानमपि धत्तुं न प्रभवन्ति / गृहकर्मयोगे च स्फुटं तथा 15 लक्ष्यमाणानीत्यस्मादेव वाच्यात्सातिशयमदनपरवशताप्रतीतेश्चारुत्वसम्पत्तिः / यत्र तु प्रकरणादिप्रतिपत्या निर्धारितविशेषो वाच्योऽर्थः पुनः प्रतीयमानाङ्गत्वेनैव भासते, सोऽस्यैवाऽनुरणनरूपव्यङ्गयस्य ध्वनेर्विषयः / यथा उच्चिणसु पडियकुसुमं मा धुण सेहालिअं हलियसुण्हे / अह ए विसमविराओ ससुरेण सुओ वलयसदो // उच्चिनु पतितानि कुसुमानि मा धावीः शेफालिकां हालिकस्नुषे / एष ते विषमविरामः श्वशुरेण श्रुतो वलयशब्दः // [छाया] यतश्चै श्वशुरः शेफालिकालतिका प्रयत्नेन रक्षस्तस्या आकर्षणधूननादिना कुप्यति तेनाऽत्र विषमपरिपाकत्वं मन्तव्यम् / अन्यथा तु स्वोक्त्यैव व्यङ्ग्याक्षेपः स्यात् / अत्र च-कस्स व ण होइ रोसो इत्येतदनुसारेण व्याख्या कार्या / अत्र ह्यविनयपतिना सह 25 रममाणा सखी बहिःश्रुतवलयकलकलया सख्या प्रतिबोध्यते / एतच्च व्यङ्ग्यमपेक्षणीय बाच्यार्थलाभाय / अन्यथा वाच्योऽर्थो न लभ्येत / स्वतःसिद्धतयाऽवचनीय एव सोऽर्थः स्यादिति यावत् / शब्दोक्ते च वाच्येऽर्थेऽविनयप्रच्छादनतात्पर्येणाऽभिधीयमाने वाच्येना - 1. कुटुंगु-ग / 2. –पि ता-ग / 3. पातनिकायाम् / 4. पुनर्व्यङ्ग्यत्वे विशेषणद्वारको हेतरयम् /