SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 153 अलङ्कारा अपि कविप्रौढोक्तिमात्रनिष्पन्नशरीरत्वादिना त्रिप्रभेदाः प्रदर्शिताः / तत्राघस्योदाहरणं चमढियमाणसेति / अत्र कविप्रौढोक्तिमात्रनिष्पन्नेन बाह्वोः परिघरूपणात्मना रूपकाऽलङ्कारेण भुजद्वयादन्यद्गजाश्वादिसामग्रीरूपं तस्याऽनुपादेयमिति वस्तु व्यङ्ग्यम् / द्वितीयस्य यथा दृशा सार्द्ध दन्तच्छदपरिचयाद्वक्त्रमरुणं कचभ्रूकौटिल्यान्मुखमपि न मुञ्चत्यवनतिम् / अहो दीर्घः कोपस्तव नयनयोगात् किमपरं कुचप्रत्यासत्या हृदयमपि ते चण्डि कठिनम् // इत्यादौ कविनिबद्धवक्तप्रौढोक्तिमात्रनिष्पन्नेन हेत्वलङ्कारेण तव न स्वाभाविकः . कोपोऽपि तु ढगादिपरिचयादरुणतादि कोपकार्यमिति वस्तु व्यज्यते। 10 / तृतीयस्य यथा-चंदमऊहेहीति / अत्र स्वतःसम्भविना सज्जनैर्विना काव्यमन्धतमससमं निःश्रीकप्रायं नीरसकाष्ठतुल्यमुपलम्भकटुकं चेति दीपकसद्भावेन वस्तु व्यज्यते / तदेवमर्थमात्रेगाऽलङ्कारविशेषरूपेण चार्थेन कविप्रौढोक्तिमात्रनिष्पन्नशरीरत्वादिना प्रत्येक त्रिभेदेनार्थान्तरस्याऽलङ्कारस्य वा प्रकाशने चारुत्वोत्कर्षनिबन्धने सति प्राधान्ये द्वादशविधोऽर्थशक्त्युद्भवाऽनुरणनरूपव्यङ्ग्यो ध्वनिरवगन्तव्यः / एवमविवक्षितवाच्यो विवक्षिता- 15 ऽन्यपरवाच्य इति द्वौ मूलभेदौ / तत्राद्यस्याऽपि द्वौ भेदौ-अत्यन्ततिरस्कृतवाच्योऽर्थान्तरसङ्क्रमितवाच्यश्च / द्वितीयस्याऽपि द्वौ-अलक्ष्यक्रमोऽनुरणनरूपश्च / प्रथमोऽनन्तभेद इत्येक एव / द्वितीयस्त्रिविधः-शब्दशक्तिमूलोऽर्थशक्तिमूलः शब्दार्थशक्तिमूलश्च / आयो द्विविधःव्यङ्ग्यालङ्कारवस्तुभेदात् / मध्यमो द्वादशविधः-व्यञ्जकस्यार्थस्याऽलङ्कारस्य च कविप्रौढोक्तिकृतशरीरत्वादिना प्रत्येकं त्रैविध्ये व्यङ्ग्यस्याऽपि प्रत्येकमेव च वस्त्वलङ्कारभेदेन 20 द्वैविध्यात् / इत्यष्टादशमुख्यभेदान् वनेः प्रतिपाद्य तदाभासेभ्यो विवेकं कर्तुमिदमुच्यते “यत्र प्रतीयमानोऽर्थः प्रेम्लिष्टत्वेन भासते / वाच्यस्याङ्तया वाऽपि नाऽस्याऽसौ गोचरो ध्वनेः // " द्विविधो हि प्रतीयमानः, स्फुटश्चास्फुटश्च / तत्र य एवं स्फुटः शब्दशक्त्याऽर्थशक्त्या वा प्रकाशते स एव ध्वनेर्मार्गो नेतरः / स हि व्यङ्ग्यस्य प्रतिभामात्र इत्यत्रो- 25 दाहृतः। स्फुटोऽपि योऽभिधेयस्याङ्गत्वेन प्रतीयमानोऽवभासते सोऽस्याऽनुरणनरूपव्यङ्ग्यस्य ध्वनेरगोचरः / . 1. अस्फुटत्वेन / 2. अङ्गता द्विप्रकारा दर्शयिष्यते / 3. अस्फुटः / 20
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy