________________ कल्पलताविवेके ___अङ्कपाली आलिङ्गनं सैव सखी निबिडा घना अन्तरङ्गा च / उद्धियमाणः अधिकीभवन् / अत्र वस्तुना हारोच्छेदादनन्तरमन्यदेव रतमवश्यमभूत् तत् कथय कीदृगिति व्यतिरेकः कथम्पदगम्यः / तान्यक्षराणि हृदये किमपि ध्वनन्तीति / किमपीत्यत्राऽपिशब्दे ऽतिशयोक्तिः कविना यो निबद्धो वक्ता रागी तद्वशादाक्षेपालङ्कारं ध्वनति / तथा हि5 तैरक्षरैर्यत् समर्पितं तस्याऽभीष्टमैभिजल्पनीयत्वं प्रतिषिध्यमानम् अभिजल्पनीयताऽतिशय एव पर्यवस्यतीति / शिखरिणीति / अत्र तवाधरपाटलमिति पदे समासोपमयाऽभिलाषात्मकं वस्तु ध्वन्यते / वाक्यप्रकाशतायामपि क्रमेणोदा[ हरणानि ] / शिखरिणि क नु नामेति / अत्र कविनिबद्धस्याऽनुरागिणो वक्तुरुक्तिशक्त्या यद्वस्तु वाक्यवाच्यं तेन स्वाभिप्रायरूपं वस्तु 10 द्योत्यते / ईसाकलुसस्सेति / यदि वा सहि विरइऊण माणस्स मज्झ धीरत्तणेण आसासम् / पियदंसणविहलंखलखणम्मि सहसत्ति तेण ओसरिय // अत्र वस्तुनाऽकृतेऽपि प्रार्थने प्रसन्नेति विभावना, प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यत इत्युत्प्रेक्षा चेति / 15 किमपीदं महद्भूतं तेजसां परमं पदम् / उपाधिप्राप्तसङ्कोचमपि नोच्छेदमर्हति // एतद्वाक्यं कविनिबद्धस्य बाणासुरमन्त्रिणः कुभाण्डस्य वक्तुः प्रौढोक्त्याऽतिशयोक्तिमभिदधानं परब्रह्मतेजसा सह अनिरुद्धस्य रूपकाऽलङ्कारं ध्वनति / ___ स्मरारातेः पादाम्बुजयुगसपर्यापरिकरे 20 . प्रदीपादौ कश्चित् प्रमदमितरोऽभ्येतु विरसम् / तथाऽस्यां भारत्यां शिवचरणचित्रस्तुतिविधौ न चित्रोल्लासायामपि जनमतौ मेऽस्ति विकृतिः // .... .. अत्र कविना यो वक्ता स्वात्मैव निबद्धस्तत्प्रौढोक्तिवशाद्य उपमाख्योऽलङ्कारो वाक्यार्थस्तेनेदं वस्तु ध्वन्यते-अनवस्थितो हि लोकानामाशयो न शक्यो ग्रहीतुमिति जना25 पवादपरिरक्षणव्यसनमाद्रियमाणेन निजहृदयरूढस्वकर्त्तव्यविमुखेन धीरेण न भाव्यमिति / तत्रैव च स्वतःसम्भविना वस्तुना वस्तुनोऽलङ्कारस्य वाऽलङ्कारेणालङ्कारस्य वस्तुनो वा 1. समर्पितस्य धनितस्य वस्तुनः // 2. प्रतिषेध इवेष्टस्येत्याक्षेपलक्षणयोजना // 3. अतिशयोक्त्या अनिर्वाच्यत्वस्वरूपया / /