________________ शब्दालङ्कारदर्शनम् 147 पूर्वा च निद्रा राजपुत्राद्यवस्थायामपीति सिद्धं रूपकध्वनिरेवाऽयमिति, शब्दव्यापारं विनैवाऽर्थसौन्दर्यबलाद्रूपणाप्रतिपत्तेः / यथा च- लावण्यकान्तिपरिपूरितेति / अत्राऽपि वाच्येन श्लेषेण रूपकं ध्वन्यत इत्यनुरणनरूपरूपकाश्रयेण काव्यचारुत्वव्यवस्थानाद्रूपकध्वनिरिति व्यपदेशो न्याय्यः / उपमाध्वनिर्यथा वीराण रमइ घुसिणारुणम्मि ण तहा पियाथणुच्छंगे। दिट्ठी रिउगयकुंभत्थलम्मि जह बहलसिंदूरे // प्रसाधितप्रियतमासमाश्वसनपरतया समनन्तरीभूतयुद्धत्वरितमनस्कतया च दोलायमानदृष्टित्वेऽपि युद्धे त्वरातिशय इति व्यतिरेको वाच्यालङ्कारः / तत्र तु येयं ध्वन्यमाना उपमा प्रियाकुचकुड्मलाभ्यां सकलजनत्रासकरेष्वपि शात्रवेषु मर्दनोद्यतेषु गजकुम्भस्थलेषु 10 तैवशेन रैतिमयानामिव बहुमान इति सैव धीरतातिशयचमत्कारं विधत्ते इत्युपमायाः प्राधान्यम् / यथा वा-तं ताण सिरिसहोयरेति / तेषामसुराणां पातालवासिनां यः पुनः पुनरिन्द्रपुरविमर्दनादि किं किं न कृतम् / तद् हृदयमिति यत्तेभ्यस्तेभ्योऽतिदुष्करेभ्योऽपि अकम्पनीयव्यवसायम् / तच्च हृदयं यत् श्रीसहोदराणामत एवानिर्वाच्योत्कर्षाणामित्यर्थः / 15 तेषां रत्नानामासमन्ताद्धरणे एकरसं तत्परम् / तत्कुसुमबाणेन सुकुमारतरोपकरणसम्भारेणाऽपि प्रियाणां बिम्बाधरे निवेशितम् / तदवलोकनपरिचुम्बनदशनमात्रकृतकृत्यताऽभिमानयोगि तेन कामदेवेन कृतम् / तेषां हृदयं यदत्यन्तं विजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् / अत्रातिशयोक्तिः पर्यायो वा, अन्येषां वाच्यालङ्कारः / प्रतीयमाना चोपमा / सकलरत्नसारतुल्यो बिम्बाधर इति हि तेषां बहुमानो वास्तव एव / अत एव न रूपकध्वनिः, 20 रूपकस्योपचारत्वेनावास्तवत्वात् / तेषां चाऽसुरागां वस्तुवृत्यैव सादृश्यं स्फुरितमिति। तदेव च सादृश्यं चमत्कारहेतुः प्राधान्येन / 1. लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि / क्षोभ यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः // ख. / / 2. उपमा // 3. रतिः प्रस्तुता येषु धीरेषु // 4. ते ताण सिरिसहोयररयणाहरणम्मि हिययमेकरसम् / बिबाहरे पियाणं निवेसियं कुसुमबाणेण // ख.॥ 5. अकम्पनीयव्यवसायम् एकरसं च // 6. भामहादिमते // 7. रुद्रटादीनाम् // 8 एवकारो भित्रक्रमे सादृश्यमेवेति // 9. सादृश्यादपि यत् प्रवृत्तिः सुराणां तत्परत्वेन स मदनस्यैव प्रभावः /