SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेक आक्षेपध्वनिर्यथा स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् / __ योऽम्बुकुम्भैः परिच्छेदं शक्तो ज्ञातुं महोदधेः // अत्राऽतिशयोक्त्या निदर्शनया वा हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपस्याऽ5 साधारणतद्विशेषप्रकाशनपरस्याऽऽक्षेपस्य प्रकाशनात् / अर्थान्तरन्यासध्वनिर्यथा हिययट्ठिअमन्नु खु अणरुट्ठमुहं पि णं पसाएन्त / अवरद्धस्स वि ण हु दे बहुजाणय रूसियं सकं // हृदये स्थितो न तु बहिः प्रकटितो मन्युर्यया, अत एवाऽप्रदर्शितरोषमुखीमपि मां 10 प्रसादयन् हे बहुज्ञ! अपराद्धस्याऽपि तव खलु न रोक्करणं शक्यम् / अत्र बहुज्ञेत्या मन्त्रगार्थो विशेष पर्यवसितः / अनन्तरं तु तदर्थपर्यालोचनावलाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि / सा हि खण्डिता सती वैदग्व्यानुनीता तं प्रत्यसूयां दर्शयन्ती इत्थमाह / यः कश्चिद् बहुज्ञो धूर्तः स स एवं सापराधोऽपि स्वापराधावकाशमवच्छादयतीति मा त्वमात्मनि बहुमानं मिथ्या ग्रहीरिति / व्यतिरेकध्वनिर्यथा जाएज वणुद्देसे खुजो च्चिय पायवो सडियपत्तो / ___ मा माणुसम्मि लोए चाएकरसो दरिदो य // जायेय वनोद्देश एव वनस्यैकान्ते गहने यत्र स्फुटं बहुतरवृक्षसम्पत्त्या प्रेक्षतेऽपि न कश्चित् / कुब्जः इति यो रूपकघटनादावनुपयोगी / शटितपत्र इति छायामपि न करोति / 20 तस्य का पुष्पफलवार्तेति भावः / तादृशोऽपि कदाचिदाङ्गारिकस्योपयोगी स्यादुलकादेर्वा निवासायेति भावः / मानुष इति सुलभार्थिजन इति भावः / लोक इति / यत्र लोक्यते सोऽर्थिभिस्तेन वार्थिजनः, न च किञ्चिच्छक्यते कर्तुं, तन्महद्वैशसमिति भावः / अत्र वाच्याऽलङ्कारो न कश्चित् / त्यागैकरसस्य दरिद्रस्य जन्माऽनभिनन्दनं, शटितपत्रकुजपादप जन्माऽभिनन्दनं च साक्षाच्छब्दवाच्यं, तथाविधादपि पादपात्तादृशस्य पुंसः शोच्यताया25 माधिक्यं तात्पर्येण प्रकाशयति / ___ उत्प्रेक्षाध्वनिर्यथा-चन्दनासक्तभुजगेति / अत्र हि मधौ मलयमारुतस्य पथिकमूर्छाकारणत्वं मन्मथोन्मार्थकदायित्वेनैव / तत्तु चन्दनासक्तभुजगैनिःश्वासानिलमूच्छितत्वेनोत्प्रेक्ष्यत 1 - थकत्वेनैव ख. // 2. [चन्दनासक्तभुजग-] निःश्वासानिलमूच्छितः। मूर्च्छयत्येष पथिकान् मधौ मलयमारुतः // ख. // 15
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy