SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके मानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुरणनरूपव्यङ्ग्योऽन्यो ध्वनिः / तस्य प्रविरलविषयत्वमाशयेदमुच्यते " रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः / स सर्वो गम्यमानत्वं बिभ्रद्धूम्ना प्रदर्शितः // " 5 / अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलङ्कारवर्गः सोऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस्तत्रभवद्भिर्भट्टोद्भटादिभिः। तथा च ससन्देहादिषूपमारूपकातिशयोक्त्यादीनां प्रकाशमानत्वं प्रदर्शितमित्यलङ्कारान्तरस्यालङ्कारान्तरेण व्यङ्ग्यत्वं यत्र न यत्नप्रतिपाद्यं तत्र वस्तुमात्रेणाऽलङ्कारो ध्वन्यत इति कियदिदमसम्भाव्यम् / इयत् पुनरुक्तमुध्यते च " अलङ्कारान्तरस्याऽपि प्रतीतौ यत्र भासते / - तत्परत्वं न काव्यस्य नासौ मार्गा ध्वनेर्मतः // " अलङ्कारान्तरेऽनुरणनरूपालङ्कारान्तरप्रतीतो सत्यामपि यत्र वाच्यस्य व्यङग्यप्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नाऽसौ ध्वनेर्मार्गः। तथा च दीपकाऽलङ्कारे उप माया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याऽव्यवस्थानान्न ध्वनिव्यपदेशः / तथा हि15 चंदमयूहेहिं गिसेति / एवमादिषूपमागर्भत्वे सत्यपि वाच्यालङ्कारमुखेनैव चारुत्वं व्यवतिष्ठते, न व्यङ्ग्यालङ्कारतात्पर्येग / तस्मात्तत्र वाच्याऽलङ्कारमुखेनैव काव्यव्यपदेशो न्याय्यः / यत्र तु व्यङ्ग्यपरत्वेनैव काव्यस्य व्यवस्थानं तत्र व्यङ्ग्यमुखेनैव व्यपदेशो युक्तः / तथा च- प्रातश्रीरेष कस्मादिति / अत्र ससन्देहोत्प्रेक्षयोः सङ्करात्सङ्करालङ्कारो वाच्यः / तेन च वासुदेवरूपता नृपतेर्वन्यते / न च ससन्देहोत्प्रेक्षाऽनुपपत्ति20 बलाद्रूपकस्याऽऽक्षेपो येन वाच्यालङ्कारोपस्कारकत्वं व्यङग्यस्य भवेत् / यो योऽसम्प्राप्त लक्ष्मीको निर्व्याजजिगीषाक्रान्तः स स मां मथ्नीयादित्याद्यर्थसम्भावनात् / न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृष्टोऽर्थः / पुनरर्थस्य भूयोऽर्थस्य च कर्तृभेदेऽपि समुद्रैक्यमात्रेणाप्युपपत्तेः / यथा-पृथ्वी पूर्व कार्तवीर्येण जिता पुनरपि जामदग्न्येनेति / 1. उपसर्जनीकृतस्वार्थावित्यनेन क. / यत्रार्थः शब्दो वेत्यस्यां कारिकायां उपसर्जनीकृत-ग // 2 चंदमयूहेहिं णिसा णलिणी कमलेहिं कुसुमगुच्छेहि लया / हंसेहिं सरयसोहा कवकहा सज्जणेहि कीरए गभई // ख. // चंदमयूएहिं ग // 3 प्राप्तश्रीरेष कस्मात्पुनरपि नियतं मन्थखेदं विदध्यात् निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि / सेतुं बध्नाति भूयः पुनरपि सकलद्वीपनाथानुयातः त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः // ख / / 4. सन्देहोत्प्रेक्षा ग / .
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy