________________ शब्दालङ्कारदर्शनम् शरेषु ययेवं मन्मथः प्रतपति, तदर्पितेषु कियद्विजृम्भिष्यत इति मन्मथोन्माथकस्याऽऽरम्भं क्रमेण गाढगाढीभविष्यन्तं व्यनक्ति / अन्यथा वसन्ते सपल्लवसहकारोद्गम इति वस्तुमात्रं न व्यञ्जकं स्यात् / एषा च कवेरेवोक्तिः प्रौढा / द्वितीयो यथा-शिखरिणीत्यादि / लोहितं बिम्बफलमयं शुको दशतीति न व्यञ्जकता काचित् / यदा तु कविनिबद्धस्य साभिलाषस्य तरुणस्य वक्तरित्थं प्रौढोक्तिस्ततो व्यञ्जकत्वम् / यथा वा सायरविइण्णजुव्वणहत्थालम्बं समुण्णमंतेहिं / . अब्भुट्ठाण पि व वम्महस्स दिण्णं तुह थणेहिं / / स्तनौ तावदिह प्रधानभूती, ततोऽपि गौरवितः कामस्ताभ्यामभ्युत्थानेनोपचर्यते। यौवनं चाऽनयोः परिचारकभावेन स्थितमित्येवंविधेनोक्तिवैचित्र्येण त्वदीयस्तनावलोकनप्रवृद्धमन्मथावस्थः को न भवतीति भङ्ग्या स्वाभिप्रायध्वननं कृतम् / तव तारुण्येनो- 10 न्नतौ स्तनाविति हि वचने न व्यञ्जकता / स्वतःसम्भवी य औचित्येन बहिरैपि सम्भाव्यमानसद्भावः, न केवलं भणितिवशेनेवाभिनिष्पन्नशरीरः / यथोदाहृतम्-एवंवादिनि देवर्षाविति / यथा वा सिहि पिंछकण्णऊरा जाया वाहस्स गम्विरी भमइ / मुत्ताहलरइअपसाहगाग मज्झे सवत्तीण // शिखिमात्रमारणमेव तदासक्तस्य कृत्यम् / अन्यासु त्वासक्तो हस्तिनोऽप्यमारयदिति बहुवचनेनोक्तमुत्तमं सौभाग्यम् / रचितानि विविधभङ्गीभिः प्रसाधनानीति तासां सम्भोगव्यग्रिमाभावात् तद्विरचनशिल्पकौशलमेव परमिति दौर्भाग्यातिशय इति दर्शितम्। गर्वश्च बाल्याऽविवेकादिनाऽपि भवतीति नाऽत्र स्वोक्तिसद्भावः शङ्कयः / एष चार्थों यथा यथा वर्ण्यते, आस्तां वा वर्णना, बहिरपि यदि प्रत्यक्षादिनाऽवलोक्यते तथा तथा 20 सौभाग्यातिशयं व्याधवध्वा द्योतयति / एवमर्थशक्त्युद्भवस्त्रिभेदो वस्तुमात्रस्य व्यञ्जनीयत्वे वस्तुध्वनिरूपतया निरूपितः / इदानीं तु तस्यैवालङ्काररूपे व्यञ्जनीयेऽलङ्कारध्वनित्वमपि भवतीत्याह " अर्थशक्तेरलङ्कारो यत्राऽप्यन्यः प्रतीयते / अनुस्वानोपमव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः // " वाच्यालङ्काख्यतिरिक्तो यत्राऽन्योऽलङ्कारो विचित्राविचित्रार्यसामर्थ्यात् प्रतीय 1. स्वार्थे कः / 2. सादरं वितीर्णो हस्तावलम्बो यत्रोन्नमने / 3. स्तनयोः / 4. लोकवृत्ते ख. / 5. न केवलं शब्दशक्तरर्थशक्तेरपि, यदि वा न केवलं वस्तुमात्रमलङ्कारोऽपि /