________________ 244 कल्पलताविवेके वशीकृतो म्लानिमापादित इति न ध्वनिविषयतामवलम्बते / वक्रोक्तिरूपवाच्याऽलङ्कारसरैणिमेवाऽनुधावति / . उभयशक्त्या यथा-दृष्ट्या केशवगोपेति / अत्र शब्दशक्तिर्गोपरागादिशब्दश्लेषवशात् / अर्थशक्तिस्तु प्रकरणवशात् / यावदत्र राधारमणस्याऽखिलतरुणीजनच्छन्नानुराग5 गरिमास्पदत्वं न विदितं तावदर्थान्तरस्याऽप्रतीते: सलेशमिति चाऽत्र स्वोक्तिः / अत एव चाऽयं श्लेषस्यैव विषयो नोभयशक्तिमूलस्य ध्वनेः / अनेन च विषयविवेकेनैतज्ज्ञाप्यतेउक्तेन प्रकारद्वयेन तृतीयोऽपि प्रकारो मन्तव्यः, यत्र हि व्यङ्ग्योऽर्थः शब्दार्थशक्त्या प्रकाश्यत एव, न शब्दान्तरेण पुनरभिधीयते तत्रोभयशक्तिमूलो ध्वनिरिति / यथा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा / 10 .... तारकातरला श्यामा सानन्दं न करोति कम् // 4. चन्द्रः कर्पूरमपि, समुत् सहर्षा, तारकाभ्यां कनीनिकाभ्यामपि, श्यामा रात्रिः ‘कान्ता च / अत्र हि अतन्द्रचन्द्रेति तारकेति च शब्दशक्तिः, समुद्दीपितेति सानन्दमिति चार्थशक्तिश्च व्यञ्जिका / व्यङ्ग्या चाऽप्राकरणिकेन पुरन्धिलक्षणेनार्थेनोपमेति / / एवमर्थशक्त्युद्भवस्य सामान्यलक्षणं कृतं, श्लेषाद्यलङ्कारेभ्यश्चास्य विभक्तो विषय 15 उक्तः। अधुनाऽस्य प्रभेदनिरूपणं करोति प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः / / अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः // अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्ये ध्वनौ यो व्यञ्जकोऽर्थ उक्तस्तस्याऽपि द्वौ प्रकारौ। तत्राऽप्याद्यो द्विविधः / कविप्रौढोक्तिमात्रनिष्पन्नशरीरः कविनिबद्धवक्तप्रौढोक्तिमात्रनिष्पन्न20 शरीरश्च / तत्राद्यो यथा . सज्जेइ सुरहिमासो ण या पणामेइ जुअइअणलक्खसहे / .... अहिणवसहयारमुहे णवपल्लवपत्तले अणंगस्स सरे // " सज्जयति सुरभिमासो न तावत् प्रणामयति अर्पयति युवतिजनलक्ष्यसहान् / अभिनवसहकारमुखानभिनवसहकारादिकलिकारूपान्नवपल्लवपत्रलाननङ्गाय शरान् // 25 छाया ] / अत्र वसन्तश्चेतनोऽनङ्गस्य सखा सज्जयति केवलं न तावदर्पयति इत्येवंविधया समर्पयितव्यवस्वर्पणकुशलयोक्त्या सहकारोनेदिनी वसन्तदशा यत उक्ताऽतोऽनर्पितेष्वपि 1. विचित्राक्तिसामान्यलक्षणमिदम् // 2. रुद्रटेन हि वक्रोक्तेरस्या भावालङ्कार इति व्यपदेशः कृतः, // भामहेन तु विशेषव्यपदेशो न विहित इति सरणिमित्युक्तम् // 3. वेध्यम् / /