________________ হাতাহীন वत्से ! मा गा विषादं श्वसनमुरुजवं संत्यजो प्रवृत्तं * कम्पः को वा गुरुस्ते भवतु बलभिदा जम्भितेनाऽत्र याहि / प्रत्याख्यानं सुराणामिति भयशमनच्छमना कारयित्वा यस्मै लक्ष्मीमदादः स दहतु दुरितं मन्थमूढां पयोधिः // _ विषमत्तीति विषादः / ऊर्ध्वप्रवृत्तमग्निमित्यत्र चार्थो मन्तव्यः / कम्पः अपांपतिः। 5 को ब्रह्मा वा तव गुरुः / बलभिदा इन्द्रेण जम्भितेनैश्वर्यमदमत्तेनेत्यर्थः / जम्भितं च गात्रमईनात्मकं बलं भिनत्त्यायासकारित्वात् / प्रत्याख्यानमिति वचसैव द्वितीयोऽर्थोऽत्राऽभिधीयत इति श्लेषस्यैवाऽयं विषयः / कारयित्वेति / सा हि कमला पुण्डरीकाक्षमेव हृदये निधायोत्थितेति स्वयमेव देवान्तराणां प्रत्याख्यानं करोति / स्वभावसुकुमारतया तु मन्दरान्दोलितजलधितरङ्गभङ्गपर्याकुलीकृता तेने प्रतिबोधनया तत्समर्थाचरणम् , अन्यत्र दोषोद् - 10 घट्टनेन / अत्र याहीति चाऽभिनयविशेषेण सकलगुणादरदर्शकेन कृतमत एव मन्थमूढामित्याह / इत्युक्तेन प्रकारेण भयनिवारणव्याजेन सुराणां प्रत्याख्यानं लक्ष्मी मन्थमूढां कारयित्वा पयोधिर्यस्मै तामदात् स वो युष्माकं दुरितं दहत्विति सम्बन्धः / अर्थशक्त्या यथा अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथाऽत्र / अस्मिन् पापाऽहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् / अत्र श्लेषपदाभावाच्छब्दशक्तिमलता नास्ति, केवलमर्थसामर्थ्याव्यङ्ग्यार्थः प्रकाशितः स्वोक्त्या पुनः प्रकटीकृतः / तथा हि-प्रोषितपतिका समभिलषितगृहप्राप्तपान्थसमागमा 20 तद्विघ्ननिवारणं शय्याविभागप्रदर्शनेनेत्थं विहितवती काचित् / अत्राऽवकाशे वृद्धा गतवयाः कृच्छ्रावबोधाऽम्बा शेते स्वपिति, ततोऽपि वर्षीयानत्र तात इति ततस्तावन्मा भैषीरित्यभिप्रायः सम्प्रति ध्वन्यमानः / इयमपि कुम्भदासी घटहारिणी कदाचिदवबुद्धा भवेदिति न शङ्कनीयम् , यतः सकलगृहव्यापारनिवर्तनवशोपजातखेदा निःसहस्रस्ततनुलता गाढतरनिद्राक्रान्तहृदया मूढेवास्मिन्नवकाशे स्वपिति / अस्मिन् पुनर्विविक्तेऽवकाशे पापा 25 सम्भोगसुखासम्पत्त्या मन्दभाग्या स्वल्पदिनान्तरालदेशान्तरप्रगतवल्लभाऽसम्भाव्यतदागमनाशङ्का स्वपिमीति गर्भीकृतविवक्षितार्थवाच्यविश्रान्तावपि व्यङ्ग्योऽर्थः प्रकरणादिसामग्रीसचिवाच्यव्यापारबललब्धप्रतिष्ठोऽवसरव्याहृतिव्याजपूर्वमित्यनेन शब्देनाऽभिधा 1. वरुणः // 2. ततः ख. // 3. विपरीतलक्षणायाम् // 4. सहाय ख // 15