SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 142 कल्पलताविवेके प्रतिग्रहीतुं प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रमे च / सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् // इत्यनेन विभावतयोपयोग उक्तः / हरस्तु किश्चित् परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः / उमामुखे बिम्बफलाधरौष्ठे व्यापारयामास विलोचनानि // अत्र हि भगवत्याः पूर्वमेव तत्प्रवणत्वात् तस्य चेदानीं तद्न्मुखीभूतत्वात् प्रणयिप्रियतया च पक्षपातस्य सूचितस्य गाढीभावागत्यात्मनः स्थायिभावस्यौत्सुक्यावेगचापलहर्षादेश्च व्यभिचारिणः साधारणीभूतोऽनुभाववर्गः प्रकाशित इति विभावाऽनुभावचर्वणैव व्यभिचारिचर्वणायां पर्यवस्यन्ती व्यभिचारिणां पारतन्त्र्यादेव स्रक्सूत्रकल्पस्थायिचर्वणा10 विश्रान्तेरलक्ष्यक्रमत्वम् / इह तु पद्मदलगणनमधोमुखत्वं चाऽन्यथाऽपि कुमारीणां सम्भाव्यत इति झटिति न लजायां विश्रमयति हृदयमपि तु प्राक् प्रवृत्ततपश्चर्यादि वृत्तान्तानुसरणेन तत्र प्रतिपत्तिं करोतीति क्रमव्यङ्ग्यतैव / रसस्त्वत्रादूर एव व्यभिचारिस्वरूपे पर्यालोच्यमाने भातीति तदपेक्षतयाऽलक्ष्यक्रमतैव / भावापेक्षया तु नाऽत्राऽलक्ष्यक्रमत्वम् / यत्र तु शब्दव्यापारसहायोऽर्थोऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स नाऽस्य लक्ष्यक्रमव्यङ्ग्यस्य ध्वने15 विषयः / अलक्ष्यक्रमव्यङ्ग्यस्तु तत्राऽपि स्यात् / यथा सङ्केतकालमनसमिति / अत्र हि आद्यपादत्रयेणोक्त्यैव लीलाकमलनिमीलनस्य प्रदोषसमयं प्रति व्यञ्जकत्वमुक्तम् / यद्यपि चात्र प्रदोषार्थ प्रति न कस्यचिदभिधाशक्तिः पदस्य, तथाऽपि पादत्रयेण योऽर्थोऽभिहितः सोऽर्थान्तरस्यानऽतिदूरवर्त्तित्वेनाऽतीव प्रकाशक इति ध्वनेर्यद्गोप्यमानतोदितचारुत्वात्मकं प्राणितं तदपहस्तयतीत्यर्थः / यत्राऽप्ययमर्थशक्त्युद्भवः प्रकाशितोऽपि शब्दान्तरेण पुनर20 भिहितस्वरूपस्तत्राऽन्यैवाऽलङ्कतिरिति दर्शयत्नाक्षिप्त एवेत्येवकार्रव्यवच्छेद्यस्य शब्दशक्त्युद्भवोक्तस्योपसंहारं तृतीयप्रकारसूचनं चैकेन यत्नेन करोति / . शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः / यत्राऽऽविष्क्रियते स्वोक्त्यासाऽन्यैवाऽलङ्कतिर्खनेः // . शब्दश्चार्थश्च शब्दार्थो चेत्येकशेषस्तेन शब्दशक्त्याऽर्थशक्त्या शब्दार्थशक्त्या 25 वाऽऽक्षिप्तोऽपि व्यग्योऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशीक्रियते सोऽस्मादनुस्वानो पमव्यङ्ग्याख्याद् ध्वनेरन्य एवालङ्कारः श्लेषादिः / अथवा ध्वनिशब्देनाऽलक्ष्यक्रमस्तस्याऽ. लङ्कार्यस्याऽङ्गिनः सति सम्भवे स व्यङ्ग्योऽर्थोऽन्यो वाच्यमात्रालङ्काराऽपेक्षया द्वितीयो लोकोत्तरश्चालङ्कार इत्यर्थः / तत्र शब्दशक्त्या यंथा। 1. ईश्वर // 2. गौरी // 3.- कारस्य ग. // 4. शब्देत्यक्षरद्वयं निबध्नन् // 5. - क्षिप्तो म्यायोऽर्थः ग. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy