SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 136 कस्पलताविवेक - एकरूप इति / एकप्रकारानुबन्धितया प्रबन्धेन प्रवृत्तो न त्वेकरूपमनुबन्धं त्यक्त्वा विचित्रो दोषायेत्यर्थः / अङ्गभूतस्य तु शङ्गारस्य एकरूपानुबन्ध्यनुप्रासनिबन्धने कामचार एवेति / "ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् / शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः // " प्रमादित्वमित्यनेनैतदर्श्यते-काकतालीयेन कदाचित् कस्यचिदेकस्य यमकादेर्निष्पत्तावपि भूम्नाऽलङ्कारान्तरवत् रसाङ्गत्वेन निबन्धो न कर्त्तव्य इति / विप्रलम्भे इति / सौकुमार्यातिशययोगाद्यमकनिबन्धो विप्रलम्भे नियमान्न कर्त्तव्यः / तत्र युक्तिरभिधीयते "रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् / 10. अपृथग्यत्ननिवर्त्यः सोऽलङ्कारो ध्वनौ मतः // " यथा कैपोले पत्रालीति / करकिशलयन्यस्तवदना श्वासतान्ताधरा प्रवर्त्तमानबाष्पभरनिरुद्धकण्ठी विच्छिन्नविच्छिन्नरुदितचञ्चलकुचतटा रोषमपरित्यजन्ती चाटूक्त्या यावत् प्रसाद्यते तावदीर्ध्या विप्रलम्भगताऽनुभावचर्वणावहितचेतस एव वक्तुःश्लेषरूपकव्यतिरेकाद्या अयत्ननिष्पाद्याश्चर्वयितुरपि न रसचर्वणाविघ्नमादधतीति / "रसवन्ति हि वस्तुनि सालङ्काराणि कानिचित् / एकेनैव प्रयत्नेन निवर्त्यन्ते महाकवेः / / यमकादिनिबन्धे तु पृथग्यत्नोऽस्य जायते / शक्तस्याऽपि रसेऽङ्गत्वं तस्मादेषां न विद्यते // रसाभासाङ्गभावस्तु यमकादेने वार्यते / ध्वन्यात्मभूते शृङ्गारे त्वङ्गता नोपपद्यते // " इदानी ध्वन्यात्मभूतस्य शृङ्गारस्य व्यञ्जकोऽलङ्कारवर्ग आख्यायते / ध्वन्यात्मभूते शृङ्गारे इति, विवक्षा तत्परत्वेनेति, नियूँढावपि चेत्येतत्कारिकात्रयं सोदाहरणं कल्पपल्लवे 1. रसोपलक्षणपरः // 2. कपोले पत्राली करतलनिरोधेन मृदिता . : निपीतो निश्वासैरयममृतहृद्योऽधररसः / . .. मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तमतटं प्रियो. मन्युर्जातस्तव निरनुरोधे न तु वयम् // ख. // 3. मात्रातिशयवदौम्मुख्यं येन प्रतिपत्तृणां वैरस्यं संपतेत् / -दौन्मुख्यं प्रतिपत्तणां येन वैरस्यमापवेत् ग. // नियूंढामपि ख. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy