________________ शब्दालकारदर्शनम् 137 विभूषणाख्ये लक्षणे प्रपञ्चितम् / एवं विवक्षिताऽन्यपरवाच्यस्य ध्वनेः प्रथमं भेदमलक्ष्यक्रम विचार्य द्वितीयं भेदं विभक्तुमाह "क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः / शब्दार्थशक्तिमूलत्वात् सोऽपि द्वेधौ व्यवस्थितः // " ननु शब्दशक्त्या यत्राऽर्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते, तदिदानी 5 श्लेषस्य विषय एवापहृतः स्यात् / नापहृत इत्याह "आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते / यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः // " यस्मादलङ्कारो न वस्तुमात्रं यस्मिन् काव्ये शब्दशक्त्या प्रकाशते स शब्दशक्त्युद्भवो ध्वनिरित्यस्माकं विवक्षितः / वस्तुद्वये च शब्दशक्त्या प्रकाशमाने श्लेषः / यथा-येन 10 ध्वस्तमनोभवेनेति / अत्र वस्तुमानं द्वितीयं प्रतीतं नालङ्कार इति श्लेषस्यैष विषयः / नन्वलङ्कारान्तरप्रतिभायामपि श्लेषव्यपदेश एवेति प्रदर्शितं भट्टोद्धटेन / तत्पुनरपि शब्दशक्तिमूलो ध्वनिरनवकाश इत्याशयेदमुक्तमाक्षिप्तः इति / तदयमर्थः / यत्र शब्दशक्त्या साक्षादलङ्कारान्तरं वाच्यं सत्प्रतिभासते स सर्वः श्लेषः / यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्त वाच्यव्यतिरिक्त व्यङ्ग्यमेवालङ्कारान्तरं प्रकाशते स ध्वनेविषयः / 15 शब्दशक्त्या साक्षादलङ्कारान्तरप्रतिभा यथा-तस्या विनाऽपि हारेणेति / विनाऽपीत्यपिशब्दोऽयं विरोधमाचक्षागोऽर्थद्रयेऽप्यभिधाशक्तिं नियच्छति / हरतो हृदयमवश्यमिति हारिणौ, हारो विद्यते ययोस्तौ हारिणाविति / अत एव विस्मयशब्दोऽस्यैवार्थस्योपोद्वलकः / अपिशब्दाभावे तु न तत एवार्थद्वयाभिधा स्यात् / स्वसौन्दर्यादेव स्तनयोविस्मयहेतुत्वोपपत्तेः / अत्र साक्षाद्विरोधालङ्कारः प्रतिभातीति विरोधच्छायाऽनुग्राहिणः श्लेष- 20 स्यायं विषयः, न त्वनुस्वानोपमव्यङ्ग्यस्य ध्वनेः / अलक्ष्यक्रमप्रतिभस्य तु ध्वनेर्वाच्येन 1. विवक्षितास्वपरस्य वाच्यस्यास्य ख. विवक्षितान्यपरवाच्यस्य ध्वनेः ग॥ 2 शब्दशक्तिमूलोऽर्थशक्तिमूलश्च // 3. भट्टोद्भट्टेन ख. // 4. तस्या विनापि हारेण निसर्गादेव हारिणौ / जनयामासतः कस्य विस्मयं न पयोधरौ॥ ख.॥ 5. नियन्त्रयति ख.॥ 6. विस्मयशब्दात् क. / हारिणौ इति पदात् ल.। 18