________________ शब्दालङ्कारदर्शनम् 135 ___ एवमस्मत्पक्ष एव गुणालङ्कारव्यवहारो विभागेनोपपद्यत इति प्रदर्य नित्यानित्यदोषविभागोऽप्यस्मत्पक्ष एव सङ्गच्छत इति दर्शयितुमाह "श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः / ___ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः॥" शृङ्गारे इति उचितरसोपलक्षणार्थम् / वीरशान्ताद्भुतादावपि तेषां वर्जनात् / एव- 5 मयमलक्ष्यक्रमोद्योतो ध्वनेरात्मा प्रदर्शितः सामान्येन / "तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये / तेषामानन्त्यमन्योन्यसंबन्धपरिकल्पने // " अङ्गितया व्यङ्ग्यो रसादिर्विवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गानां वाच्यवाचकानुपातिनामलङ्काराणां ये प्रभेदा निरवधयः, ये च स्वगतास्तस्याङ्गिनोऽर्थस्य 10 रसभावतदाभासतत्प्रशमलक्षणाः विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्तस्वाश्रयापेक्षया निःसीमानो विशेषास्तेषामन्योन्यसम्बन्धपरिकल्पने क्रियमाणे कस्यचिदन्यतमस्याऽपि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किमुत सर्वेषाम् / तथाहि-शृङ्गारस्यैवाङ्गिनस्तावदाद्यौ द्वौ भेदौ-सम्भोगो विप्रलम्भश्च / सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणाः प्रकाराः / विप्रलम्भस्याऽपि अभिलाषाविरहप्रवासविप्रलम्भादेयः / 15 तेषां च प्रत्येकं विभावानुभावव्यभिचारिभेदाः / तेषां च देशकालाश्रयावस्थाभेद इति स्वगतभेदापेक्षयैव तस्याऽपरिमेयत्वं, किं पुनरङ्गप्रभेदकलनया / ते ह्यङ्गप्रभेदाः प्रत्येकमङ्गिप्रभेदसम्बन्धकल्पने क्रियमाणे सत्यानन्त्यमेवोपयान्ति / "दिङ्मात्रं तूच्यते येन व्युत्पन्नानां सचेतसाम् / बुद्धिरासादिताऽऽलोका सर्वत्रैव भविष्यति // " दिङ्मात्रकथनेन हि व्युत्पन्नानां सहृदयानामेकत्राऽपि रसप्रभेदे सहालङ्कारैरङ्गाङ्गिभावपरिज्ञानादासादितालोका बुद्धिः सर्वत्रैव भविष्यति / तत्र "शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान् / सर्वेष्वेव प्रभेदेषु नाऽनुप्रासः प्रकाशकः // " 1. गुणालङ्कारविवेके एवेदं साधनम् / तथाहि यत्रैव दोषास्तत्रैव गुणाः / रसविशेषे च दोषाः / ननु शब्दार्थयोः स्वरूपे यदि हि तयोः स्युस्तद् बीभत्सादौ पारुष्यादयो गुणा न भवेयुहाँस्यादौ चाऽसभ्यस्मृतिहेतुत्वादयः / अनित्याश्चैते दोषा उक्तास्ततो यस्याङ्गिनस्ते दोषाः, तदभावे न दोषास्तद्भावे तु दोषा इति दोषैर्गुणैश्वान्वयव्यतिरेकाभ्यां रसविशेष एवाश्रयोऽधिगम्यते / 2. आदिशब्देन शापविप्रलम्भः //