________________ 134 कल्पलताविवेक सर्वत ऊर्वोर्घातस्तेन सम्यक् चूर्णितं पुनरनुत्थानोपहतं कृतमूरुयुगलं युगपदेव ऊरुद्वयं यस्य / तं सुयोधनमनादृत्यैव स्त्यानेनावश्यानतया न तु कालान्तरशुष्कतयाऽवनद्धं हस्ताभ्यामविचलद्रूपमत्यन्तमाभ्यन्तरतया घनं न तु रसमात्रस्वभावं यच्छोगितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य / अत एव स भीमः कातरत्रासदायी / तवेति यस्यास्तत्तदपमानजातं' 5 देव्यनुचितमपि तस्यास्तव कचानुत्तंसयिष्यति उत्तंसवतः करिष्यतीति वेणीत्वमपहरन् करविच्युतशोणितशकलकैलॊहितकुसुमापीडेनेव योजयिष्यतीत्युप्रेक्षा। तव देवीत्यनेन कुलकलत्रखलीकारस्मरणकारिणा क्रोधस्यैवोद्दीपनविभावत्वं कृतमिति, नात्र शृङ्गारशङ्का कर्त्तव्या। सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमः। स च सञ्चूर्णितोरुत्वादेव। स्त्यानग्रहणेन द्रौपदीमन्युप्रक्षालने त्वरा सूचिता। समासेन च सन्ततवेगवहनस्वभावा 10 तावत्येव मध्ये विश्रान्तिमलभमाना सञ्चूर्णितोरुद्वयसुयोधनानादरणपर्यन्ता प्रतीतिरेकघनैव भवतीत्यौद्धत्यस्य परं परिपोषिका / ___ अन्ये तु मुयोधनस्य सम्बन्धि यत्स्त्यानावनद्धं घनं शोणितं तेन शोणपाणिरिति व्याचक्षते / तत्प्रकाशनपरश्चार्थोऽनपेक्षितदीर्घसमासरचनप्रसन्नवाचकाभिधेयो यथा-यो यः शस्त्रं बिभर्तीति / स्वभुजयोर्गुरुर्मदो यस्य चमूनां मध्येऽर्जुनादिरित्यर्थः / पञ्चाल15 राजपुत्रेग धृष्टद्युम्नेन द्रोणस्य व्यापादनात् तत्कुलं प्रत्यधिकः क्रोधावेशोऽश्वत्थाम्नः / तत्कर्म साक्षी इति कर्णप्रभृतिः / रणे सङ्ग्रामे कर्तव्ये यो मयि मद्विषयं प्रतीपं चरति समरविघ्नमाचरति, यदि वा मयि चरति सति सङ्ग्रामे यः प्रतीपं प्रतिकूलं कृत्वा आस्ते, स एवंविधो यदि सकलजगदन्तको भवति तस्थाऽप्यहमन्तकः, किमुतान्यस्य मानुषस्य देवस्य * अत्र पृथग्भूतै रव क्रमाद्विमृश्यमानैरथा पदात् पदं क्रोधः परां धारां श्रित इत्यसमस्ततैव 20 दीप्तिनिबन्धनम् / एवं माधुर्य-दीप्ती परस्परप्रतिद्वन्द्वितया स्थिते शृङ्गारादिरौद्रादिगते इति प्रदर्शयता तत्समावेशवैचित्र्यं हास्य-भयानक-बीभत्स-शान्तेषु दर्शितम् / हास्यस्य शङ्गाराङ्गतया माधुर्य प्रकृष्टं विकाशधर्मतया चौजोऽपि प्रकृष्टमिति साम्यं द्वयोः / भयानकस्य मग्नचित्तवृत्तिस्वभावत्वेऽपि विभावस्य दीप्ततया ओजः प्रकृष्टं, माधुर्यमल्पम् / बीभत्सेऽप्येवम् / शान्ते तु विभाववैचित्र्यात् कदाचिदोजः प्रकृष्टं कदाचिन्माधुर्यमिति विभागः / "समर्पकत्वं काव्यस्य यत्तु सर्वरसान् प्रति / स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः / " 1. 'कृतम्' इति ख. ग. पुस्तकयोरधिकम् // 2. अन्ये स्वसुयो-क. // 3. माधुर्यदीप्त्योः / 4. मुख्यत्या प्रसादो रसाश्रय इत्यपेक्ष्यम् उपचारात्तु शब्दार्थधर्मः // 5 समासातिसमासमध्यमसमासः //