________________ शब्दालङ्कारदर्शनम् 127 कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्ता नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निःस्पन्दतामागता / मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाझं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने // अत्र हि नायिकाकाराऽनुवय॑मानस्वात्मप्रतिकृतिपवित्रितचित्रफलहकालोकनाद्वत्स- 5 राजस्य परस्परास्थाबन्धरूपो रतिस्थायिभावो विभावाऽनुभावसंयोजनावशेन चर्वगारूढ इति / यद्यपि च रसेनैव सर्वं जीवति काव्यं तथापि तस्य रसस्यैकघनचमत्कारात्मनोऽपि कुतश्चिदंशात् प्रयोजकीभूतादधिकोऽसौ चमत्कारो भवति / तत्र यदा कश्चिदुद्रिक्तावस्था प्रतिपन्नो व्यभिचारी चमत्कारातिशये प्रयोजको भवति तदा भावध्वनिः / यथातिष्ठेत् कोपवशाद् इति / अत्र हि विप्रलम्भरससद्भावेऽपि ईयति वितख्यिव्यभिचारि- 10 चमक्रियाप्रयुक्त आस्वादातिशयः / व्यभिचारिणः उदयस्थित्यपायत्रिधर्मकाः / यदाह"विविधमाभिमुख्येन चरन्तीति व्यभिचारिणः” इति / तत्रोदयावस्थाप्रयुक्तः कदाचिद्यथा-याते गोत्रविपर्यये इति / अत्र हि प्रणयकोपस्योजिगमिषयैव यदवस्थानं न तु पारित इत्युदयावकाशनिराकरणात्तदेवाऽऽस्वादजीवितम् / स्थितिः पुनरुदाहृता तिष्ठेत् कोपवशाद् इत्यादिना / क्वचित्तु व्यभिचारिणः 15 प्रशमावस्थया प्रयुक्तश्चमत्कारः / यथा-एकस्मिन् शयने इति / कचिद् व्यभिचारिणोः सन्धिरेव चर्वणास्पदम् / यथा-उसुरुसुंभियाए इति / कचिद् व्यभिचार्यन्तरशबलतैव विश्रान्तिपदम् / यथा वाकार्यम् इति / एवमन्यदुत्प्रेक्ष्यम् / एतानि चोदयसन्धिशबलत्वादिकानि कारिकायाम् आदिग्रहणेन गृहीतानि / यदा च विभावाभासाद्रत्याभासोदयस्तदा विभावानुभावाभासाच्चर्वणाभास इति / 20 रसाभासस्य विषयो यथा-रावणकाव्याकर्णने शृङ्गाराभासः / यद्यपि 'शृङ्गारानुकृतिर्या तु स हास्यः” इति मुनिना निरूपितं, तथाऽप्यौत्तरकालिकं तत्र हास्यरसत्वमिति दूराकर्षणमोहेत्यत्रै न हास्यरसचर्वणावसरः / ननु नात्र रतिस्थायिभावोऽस्ति परस्परास्थाबन्धाभावात् / केनैतदुक्तं रतिः इति / रत्याभासो हि सः / अतश्चाभासो येनाऽस्य सीतामप्युपेक्षिका द्विष्टा वेति प्रतिपत्तिहृदयं न स्पृशत्येव / तत्स्पर्श हि तस्याप्यभिलाषो लीयेत / न च मयी- 25 यमनुरक्ता इत्यपि निश्चयेन कृत्यं, कामकृतान्मोहाद् / अत एव तदाभासत्वं वस्तुतस्तत्र स्थाप्यं, शुक्तौ रजताभासवत् / एतच्च शृङ्गारानुकृतिशब्दं प्रयुञ्जानो मुनिरपि सूचितवान् / अनुकृतिरमुख्यता आभास इति ह्येकोऽर्थः / अत एवाभिलाषिके एकतरनिष्ठेऽपि शङ्गार 1. श्रुतावगतवाक्यार्थमात्रे // 2. शृङ्गारानुकृतिकालानन्तरभाविकालोद्भवम् // 3. श्रृगारानुकृतिमात्रे श्लोके / 4. विप्रलम्भशृङ्गारे // द .