________________ 128 कल्पलताविवेके शब्देन तत्र तत्र व्यवहारस्तदाभासतया मन्तव्यः / शृङ्गारेण वीरादीनामप्याभासरूपतोपलक्षितैव। एवं रसध्वनेरेवाऽमी भावध्वनिप्रभृतयो निष्यन्दा आस्वाद प्रधानं प्रयोजकमंशं विभज्य पृथग् व्यवस्थाप्यन्ते / यथा गन्धयुक्तिहरेकसंमूर्छितामोदोपभोगेऽपि सुपरिशुद्धम् आस्यादिप्रयुक्तमिदं सौरभमिति / इदानीं रसवदलंकारादलक्ष्यक्रमद्योतनात्मनो ध्वनेविभक्तो विषय इति दय॑ते “वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् / रसादिपरता यत्र स ध्वनेविषयो मतः / " रस-भाव-तदाभास-तत्प्रशमनलक्षणं मुख्यमर्थमनुवर्त्तमाना यत्र शब्दालङ्कारा अर्थालङ्कारा गुणाश्च परस्परं ध्वन्यपेक्षया च विभिन्नरूपा व्यवस्थितास्तत्र काव्ये ध्वनिरिति 10 व्यपदेशः / "प्रधानेऽन्यत्र वाक्यार्थे यत्राऽङ्गं तु रसादयः / काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः // " यद्यपि रसवदलङ्कारस्यान्यैर्दर्शितो विषयस्तथाऽपि यस्मिन् काव्ये प्रधानतयाऽन्योऽर्थो वाक्यार्थीभूतस्तस्य चाङ्गभूता ये रसादयस्ते रसादेरलङ्कारस्य विषय इति मामकः पक्षः / 15 तद्यथा- चाटुषु प्रेयोलङ्कारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते / स च रसादिरलङ्कारः शुद्धः संकीर्णो वा / तत्राद्यो यथा-किं हास्येन न मे इति / अत्र करु गरसस्य शुद्धस्याङ्गभावात् स्पष्टमेव रसवदलङ्कारत्वम् / यद्यप्यत्र शृङ्गारोऽप्यस्ति तथाऽपि स करुणस्यैवाङ्गमिति नै सङ्करः। स्वप्नस्याऽनुभूतसदृशत्वेन भवनमिति हसन्नेव प्रियतमः स्वप्नेऽप्य वलोकितः / 20 न मे प्रयास्यसि पुनरिति / इदानीं त्वां विदितशठभावं बाहुपाशबन्धान मोदयामि / अत एव रिक्तबाहुवलयः इति / स्वीकृतस्य चोपालम्भो युक्त इत्याह-केयं निष्करुणेति / केनासीति / गोत्रस्खलितादावपि न कदाचिन्मया खेदितोऽसीति / स्वप्नान्तेषु स्वप्नायितेषु स्वप्नप्रलपितेषु पुनः पुनरुद्भूततया बहुष्विति वदन् युष्माकं सम्बन्धी रिपुत्रीजनः प्रियतमे विशेषेण आसक्तः कण्ठग्रहो येन तादृश एव सन् बुद्ध्वा शून्यवलयाकारी कृतबाहुपाशः 25 सन् तारं मुक्तकण्ठं रोदितीति / अत्र शोकस्थायिभावेन स्वप्नदर्शनोद्दीपितेन करुणरसेन * चर्यमाणेन सुन्दरीभूतो नरपतिप्रभावो भातीति करुणः शुद्ध एवालङ्कारः / न हि त्वया 1. सुरभिद्रव्यम् // 2. रसवद्दर्शितस्पष्टशृङ्गारादिरसमिति वाक्यार्थत्वेन / अलंकारकाराणामभिप्रायेण प्रेयोलंकारस्य वाक्यार्थत्व इत्युक्तमाचार्याभिप्रायेण तु भावध्वनाविति वक्तव्यम् // 3. मदुपज्ञमेतदित्यर्थः // 4. न संकीर्णता //