________________ 126 कल्पलताविवेके अत्यन्ततिरस्कृतवाच्यो यथा रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः / / निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते // हेमन्तवर्णने पञ्चवट्यां' रामस्योक्तिः / अन्ध इति चोपसंहृतदृष्टिः, जातान्धस्यापि 5 गर्भे दृष्टयुपघातात् / अन्धोऽयं पुरोऽपि न पश्यतीति / अस्त्यत्र तिरस्कारोऽन्धार्थस्य न त्वत्यन्तम् / इह तु आदर्शस्याऽऽन्व्यमारोप्यमाणमपि न सह्यमिति अन्वशब्दोऽत्र पदार्थस्फुटीकरणाशक्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्श लक्ष गया प्रतिपादयति / असाधारणविच्छायत्वानुपयोगित्वादिधर्मजातमसङ्ख्यं प्रयोजनं व्यनक्ति / यथा च . गयणं च मत्तमेहं धारालुलियज्जुणाई अ वगाई।। गिरहंकारमियंका हरन्ति णीलाउ वि णिसाओ // चशब्दोऽपिशब्दार्थे / गगनं मत्तमेवमपि न केवलं तारकितम् , धारालुलितार्जुनवृक्षाण्यपि वनानि, न केवलं मलयमरुदान्दोलितसहकाराणि, निरहंकारमृगाङ्का नीला अपि निशाः, न केवलं सितकरकिरणधवलिताः, हरन्ति उत्सुकयन्तीत्यर्थः / मत्तशब्देन सर्वथै वेहाऽसम्भवत्स्वार्थेन बावितमयोपयोगक्षीबात्मकमुख्यार्थेन सादृश्यान्मेवान् लक्षयताऽसमञ्ज15 संकारित्वदुर्निवारत्वादिधर्मसहस्रं ध्वन्यते / निरहङ्कारशब्देनाऽपि चन्द्रं लक्षयता तत्पारतन्त्र्यविच्छायत्वोज्जिगमिषारूपजिगीषात्यागप्रभृति / - "असंलक्ष्यक्रमोद्योतः क्रमेण द्योतितो परः / विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः // " . असंलक्ष्यक्रम इत्यनेन क्रमोऽत्र भवत्येवेति प्रकाश्यते / विशेषप्रतिषेधे शेषाभ्यनु20 ज्ञानमिति न्यायात् / तत्र "रसभावतेदाभासतत्प्रशान्त्यादिरक्रमः / ध्वनेरात्माऽङ्गिभावेन भासमानो व्यवस्थितः // रमादिरेवाक्रमो न तु रसादिरक्रम एव / एवंवादिनि देवर्षों इत्यादौ कचिद्भावस्य क्रमव्यङ्ग्यत्वप्रकाशनात् / तत्र रसध्वनिः स एव यत्र मुख्यतया विभावानुभाव25 व्यभिचारिसंयोजनोचितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवाऽऽस्वादप्रकर्षः / यथा 1 स्थानविशेषे // 2 -स्फुिटी-क / 3. सादृश्य // 4 मर्यादोल्लङ्घनसारूप्यात् // 5 स्खलनगर्जनवमनविद्युजिह्वाप्रसारणनिखिलजगत्प्लावनवियुक्तप्राणहरणादि / 6. बाधितबलौजित्य गर्वाभावात्मकमुख्याथेन // 7 जीवन्मृतप्रायवसादृश्यात् // 8. चन्द्र // 9. रसभाव / 10 भाव // 11 अन्यस्तु रसवदलङ्कारो भावादिधनिर्वा // 12 अङ्गिभावेन //