SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 122 कल्पलताविवेके - अयमुक्तप्रकारो ध्वनिर्भक्त्या नैकरूपतां तादूप्यं धेटकुम्भवत् विभर्ति, भिन्नरूपत्वात् / वाच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशनं यत्र स ध्वनिः, उपचारमात्रं तु भक्तिः / तत्रैतत् स्यात् भक्तिर्लक्षणं वनेः, पृथिवीत्वमिव पृथिव्यास्तादात्म्येन स्थितमित्याह "अतिव्याप्तेरथाव्याप्तेर्न चाऽसौ लक्ष्यते तया / " __ न च भक्त्या ध्वनिर्लक्ष्यते / कथमतिव्याप्तेरव्याप्तेश्च / तत्रातिव्याप्तिर्ध्वनिव्यति5 रिक्तेऽपि विषये भक्तेः सम्भवात् / यत्र हि व्यञ्जकत्वकृतं महत् सौष्ठवं नास्ति तत्राऽप्युप चरितशब्दवृत्त्या प्रसिद्धयनुरोधप्रवर्तितव्यवहाराः कवयो दृश्यन्ते / यथा-परिम्लानं पीनस्तनेति / गात्रान्तरसङ्गे म्लानम् / उभयतः स्तनजघनविश्रमपदे तु परितः समन्तात् म्लानम् / अन्तर्मध्यस्य बुध्नभागे सन्तापं वदति प्रकाशयत्यंत एव तथाभूताऽनुभाववशात् तत्सन्तापे दृढपरामर्शेन साक्षात्कारायमाणे उदयनोऽपि यदा सन्तापमनुभवति तदा सन्तापं वेदत्युप10 दिशति सङ्क्रमयतीत्यप्यर्थो व्याख्येयः / अत्र वदति प्रकाशयतीति प्रतिपत्तेः करणं लक्ष्यते / तस्य स्फुटत्वं प्रयोजनम् / तदप्रयोजनकल्पमगुप्तत्वेनाऽभिहितत्वेनेव प्रतीतेस्तत्प्रत्युत प्रतिपन्नमहृद्यम् / कार्यमुखेन हि प्रतिपन्नः सन्तापो यथा चमत्करोति न तथाऽभिहितरूपः / वदति सक्रमयतीत्यत्र व्याख्याते द्वितीयेऽर्थे गुप्तत्वेन प्रतीयमानं स्फुटत्वलक्षणं प्रयोजनमस्तीति शङ्कित्वा उदाहरणान्तराणि दर्श्यन्ते / चुंबिज्जइ सयहुत्तं अवरुंडिजइ सहस्सहुत्तं पि / रमिए पुणो रमिज्जइ पिये जणे णत्थि पुणरुत्तं // अत्र पौनरुक्त्येन वैरेस्य लक्ष्यते, क्रमश्चोपलक्ष्यते / एवं च क्रमोऽपि" नास्तीत्यर्थः / तथाहि-आलिङ्गनादनन्तरं परिचुम्बनमिति कामसूत्रम् / इह तु परिचुम्बनमादावुक्तम् / कुवियाओ पसण्णाओ ओरुण्णमुहीओ विहसमाणीओ / जह गहिया तह हिययं हरन्ति उच्छण्णमहिलाओ // ओरुण्णमुहीओ उपरुदितवदनाः / उच्छण्णमहिलाओ स्वैरिण्यो महिलाः / न केवलं प्रसन्ना विहसन्त्यश्च, यावत् कुपिता रुदत्योऽप्यावर्जयन्ति / यथेति ताडनादि कुर्वत्योऽपि / अत्र ग्रहणेन उपादेयता लक्ष्यते / हरणेन तत्परतन्त्रतापत्तिः / 1. व्यतिरेकी दृष्टान्तः / 'ताद्रूप्यं घटकुम्भवत्' अयं पाठः ग पुस्तके नास्ति // 2. आशकेयम् / / 3. धनेरित्याह इति पाठः ग. पुस्तके / / 4. व्याख्यानान्तरमिदम् // 5. सामान्येन वदनेन विशेषरूप उपदेशस्तेन च स्वफलभूतं संक्रमणं लक्ष्यते // 6 प्रतिपादनम् // 7 सकाग. // 8. प्रतीयमानमस्फुटत्व-ग. // 9. कार्यम् // 10. पौनरुक्त्यं हि दोषः, स चेहाऽसम्भवन् दोषत्वसमानजातीयं क्रममुपलक्षयति / प्रियतमजने हि उपभोगस्य कः क्रम इति लौकिकी प्रसिद्धिस्तदाश्रयणेन च तस्य दोषगणनेति / लक्षिताभ्यामर्थाभ्यां तात्पर्य गाथायाः कथयति // 11 अपिशब्दाद् वैरस्यम् // 12. स्त्री //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy