________________ शब्दालङ्कारदर्शनम् 126 अज्झाइ पहारो णवलयाए दिण्णो पियेण थणवढे / मउओ वि दूसहो च्चिय जाओ हियए सवत्तीण // कनिष्ठभार्यायाः स्तनपृष्ठे नवलतया कान्तेनोचितक्रीडायोगेन मृदुकोऽपि प्रहारो दत्तः सपत्नीनां सौभाग्यसूचकतत्क्रीडासंविभागमप्राप्तानां हृदये दुःसहो जातो मृदुकत्वादेव। अन्यस्य दत्तो मृदुः प्रहारोऽन्यस्य च सम्पद्यते दुःसहश्च मृदुरपीति चित्रम् / दानेन स्वत्व- 5 निवृत्तिपरत्वापादनरूपेणासम्भवताऽत्र तत्फलवत्त्वं लक्ष्यते / परार्थे यः पीडामनुभवति इति / यद्यपि प्रस्तुतमहापुरुषापेक्षयाऽनुभवतिशब्दो मुख्य एव, तथाऽप्यप्रस्तुते इक्षौ प्रशस्यमाने पीडाया अनुभवनेन असम्भवता पीडावत्वं लक्ष्यते / तच्च पीड्यमानत्वे पर्यवस्यति / नन्वस्त्येतेषु किमपि किमपि प्रयोजनं, तत् किमिति न ध्वन्यते / मैवम् / न ह्येवंविधः कदाचिदपि ब्वनेविषयो युक्त इत्याह ___10 - "उक्त्यन्तरेणाशक्यं यत्तच्चारुत्वं प्रकाशयन् / शब्दो व्यञ्जकतां बिभ्रद् ध्वन्युक्तेविषयी भवेत् // " उक्त्यन्तरेण इति / ध्वन्यतिरिक्तेन स्फुटेन शब्दार्थव्यापारविशेषेणेत्यर्थः। ध्वन्युक्तेविषयी भवेद् इति ध्वनिशब्देनोच्यतेत्यर्थः / वदतीत्यादावुदाहृते च विषये नोक्त्यन्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः / एवं यत्र प्रयोजनं सदपि नादरास्पदं तत्र को ध्वनन- 15 व्यापारः इत्युक्त्वा, यत्र मूलत एव प्रयोजनं नास्ति भवति चोपचारस्तत्राऽपि को ध्वननव्यापार इत्याह "रुढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि / लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः // " लावण्याद्या ये शब्दाः स्वविषयाल्लवगरसयुक्तत्वादेः स्वादन्यत्र हृद्यत्वादौ रूढाः, 20 रूढत्वादेव च त्रितयसन्निध्यपेक्षणव्यवधानशून्याः / यदाह "निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवद् / " इति / ते तस्मिन् स्वविषयादन्यत्र प्रयुक्ता अपि न ध्वनेः पदं भवन्ति / न तत्र ध्वनिव्यवहारः / तथाविधे च विषये कचित् सम्भव नपि ध्वनिव्यवहारः प्रकारान्तरेण प्रवर्तते, न तथाविधशब्दमुखेन / यथा / दीवडि तेल्लु णाहि पलु दम्मि गमिट्ठौं / लावण्णुजलंगु घरि ढोल्लु पइट्ठा // 1. दानफलं सम्बन्धः, प्रहारसम्बन्धवती जातेत्यर्थः / / 2. पीडया सह सम्बन्धः / / 3 वाच्यवाचकभावात्मना / / 4. गविठ्ठा ख. //