________________ 114 कल्पलताविवेके यत्रार्थो वाच्यविशेष उपसर्जनीकृतात्मा शब्दो वा वाचकविशेष उपसर्जनीकृताभिधेयस्तमर्थं व्यक्तः स काव्यविशेषो ध्वनिरिति / तमर्थम इति उपयोगः / व्यक्तः इति द्विवचनेनेदमाह / यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथाऽप्यर्थस्यापि सहकारिता न त्रुटयति / अन्यथा अज्ञातार्थोऽपि शब्दस्त5 द्वयञ्जकः स्यात् / विवक्षितान्यपरवाच्ये च शब्दस्याऽपि सहकारित्वं भवत्येव / विशिष्ट शब्दाभिधेयतया विना तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोरुभयोरपि ध्वननं व्यापारः / अर्थः शब्दो वा इति तु विकल्पाभिधानं प्राधान्याभिप्रायेण / काव्यं च तद्विशेषश्चासौ काव्यस्य वा विशेषः / काव्यग्रहणाद्गुणालङ्कारोपस्कृतशब्दार्थपृष्ठपाती ध्वनिलक्षण आत्मेत्युक्तम् / स इति अर्थो वा शब्दो वा व्यापारो वा / अर्थोऽपि वाच्यो वा ध्वनीति / 10 शब्दोऽप्येवं व्यङ्ग्यो वा ध्वन्यत इति / व्यापारो वा शब्दार्थयोर्ध्वननमिति / कारिकया तु प्राधान्येन समुदाय एव काव्यरूपो मुख्यतया ध्वनिरिति प्रतिपादितम् / अनेन च लक्षणेन वाच्यवाचकचारुत्वहेतुभ्यो गुणालङ्कारेभ्यो विभक्त एव ध्वनेविषय इति दर्शितम् / तेषां वाच्यवाचकभावप्राणत्वादस्य च तदन्यव्यङ्ग्यव्यञ्जकभावसारत्वान्नाऽस्य तेष्वन्तर्भाव इति / एतदेवाह "व्यायव्यञ्जकसम्बन्धनिबन्धनतया ध्वनेः / वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः / " एतेन यदभाववादिनः केचिदाचक्षीरन्-शब्दार्थशरीरं तावत् काव्यम् / तस्य शब्दगताश्चारुत्वहेतवोऽनुप्रासादयः प्रसिद्धा एव / अर्थगताश्चोपमादयः सङ्घटनाधर्माश्च माधुयोदयस्तेऽपि प्रतीयन्ते / तदनतिरिक्तवृत्तयो वृत्तयोऽपि याः कैश्चिदुपनागरिकाद्याः 20 प्रकाशितास्ता अपि गताः श्रवणगोचरम् / रीतयश्च वैदर्भीप्रभृतयः / तद्व्यतिरिक्तः कोऽयं ध्वनिर्नामेति तत् पराकृतम् / यतो ध्वनिव्यवहारप्रयोजको व्यङ्ग्यव्यञ्जकभावो भिन्नसामग्रीवेद्यत्वाद्वाच्यवाचकयोस्तद्धर्माणां चैकज्ञानसंसर्गित्वमेव न भजत इति / ननु यत्र प्रतीयमानस्यार्थस्य चारुतया स्फुटतया चाप्रतीतिः स नाम माऽभूद् ध्वनेविषयः, यत्र तु तत्प्रतीतिरस्ति समासोक्त्यादौ तत्र ध्वनेरन्तर्भावो भविष्यतीति निराकर्तुम25 भिहितम्-उपसर्जनीकृतस्वार्थों इति / व्यङ्ग्यप्राधान्ये हि ध्वनिः / न चैतत् समासो क्त्यादावस्ति / समासोक्तौ तावत्- उपोढरागेण इति / अत्र व्यङ्ग्येनानुगतं वाच्यमेव 15 / 1. संभावनया लिङ् // 2. तस्मादनुप्रासात् तेभ्यो माधुर्यादिभ्यश्चानधिको व्यापारो यासाम् / अनुप्रासरूपा हि वृत्तयो गुणात्मानश्च रीतयः // 3. प्रकरणादि // 4. गुणालङ्काराणाम् //