________________ शब्दालङ्कारदर्शनम् __ सम्प्रति व्यङ्गयव्यञ्जकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयस्तदपि युक्तमेवेत्याह "आलोकार्थी यथा दीपशिखायां यत्नवान् जनः / तदुपायतया तद्वदर्थे वाच्ये तदादृतः // " तदातः इति तं व्यङ्गयमर्थं प्रति सादर इत्यर्थः / अनेन प्रतिपादकस्य कवे- 5 य॑ङ्गयमर्थं प्रति व्यापारो दर्शितः / / प्रतिपाद्यस्यापि तं दर्शयितुमाह " यथा पदार्थद्वारेण वाक्यार्थः संप्रतीयते / वाच्यार्थपूर्विका तद्वत् प्रेतिपत् तस्य वस्तुनः // " अधुना वाच्यार्थप्रतीतिपूर्वकत्वेऽपि तत्प्रतीतेर्व्यङ्गयस्यार्थस्य यथा प्राधान्यं न 10 व्यालुप्यते तथा दर्शयति "स्वसामर्थ्यवशेनैव वाक्याथ प्रथयन्नपि / यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते / तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् / बुद्धौ तत्त्वार्थदर्शिन्यां झगित्येवावभासते // " स्वसामर्थ्यमाकाङ्क्षा-योग्यता सन्निधयः / न विभाव्यते इति विभक्ततया न भाव्यत इत्यर्थः / तद्वद इति वाच्यार्थ-इति च / पदार्थवत् वाच्येऽर्थे विमुखो विश्रान्तिनिबन्धनं परितोषमलभमान आत्मा हृदयं येषामित्यर्थः / इति ध्वनिलक्षणाङ्गोपन्यासेऽपरऑब्देभ्यः काव्यभेदनम् अर्थः सहृदयेत्याद्यर्द्धन, अर्थविभागो वाच्यप्रतीयमानेत्यादिना, वाच्यस्याविस्तरे हेतुस्तत्र वाच्य इत्यादिना, व्यङ्गयस्य 20 सद्वयवहारे प्राधान्ये च प्रमाणानि / प्रतीयमानं पुनः] पुनरन्यदेवेति, शब्दार्थशासनेति च, काव्यस्यात्मेति, सरस्वती स्वाद्विति, सोऽर्थ इत्याद्यर्द्धन च / विशिष्टशब्दार्थोपयोगो यत्नत इत्यादिना / वाच्यवाचकयोरङ्गत्वमालोकार्थी यथेति, यथा पदार्थद्वारेणेति च / व्यङ्गयप्राधान्यस्य न व्यालोपः स्वसामर्थ्यवशेनैवेत्यादि कारिकाद्वयेनेत्यष्टौ प्रमेयाणि / तदेवं वाच्यव्यतिरेकिणो व्यङ्गयस्य सद्भावं प्रतिपाद्य प्रकृते ध्वनिलक्षणे उपयोगं 25 गमयन्नाह “यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थो / व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः // " 1. ज्ञानम् // 2. व्यङ्ग्यस्य // 3. व्यङ्ग्यतत्प्राधान्यतदङ्गशब्दार्थ // 4 श-ग. // 5. सत्ता प्राधान्यं च //