SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 112 कल्पलताविवेक चर्वणोचितशोकस्थायिभावात्मककरुणरससमुच्छलनस्वभावत्वात् स एव काव्यस्यात्मा सारभूतस्वभावोऽपरशाब्दवैलक्षण्यकारकः / ___ एवमितिहासमुखेन प्रतीयमानस्य काव्यात्मतां प्रदर्श्य स्वसंवित्सिद्धमप्येतदिति दर्शयति सरस्वती स्वादु तदर्थवस्तु विष्यन्दमाना महतां कवीनाम् / अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् / / सरस्वती वाग्रूपा भगवती। अर्थवस्तु वस्तुतत्त्वम् / विष्यन्दमाना दिव्यमानन्दरसं स्वयमेव प्रस्नुवानेत्यर्थः / येन वस्तुतत्त्वेन प्रतिभाविशेषेग वा परिस्फुरताऽस्मिन्नियति विचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति 0 गण्यन्ते / यो यस्य विशेषत्र्यपदेशहेतुः स तस्योत्कर्षनिबन्धनः / राजव्यवहारः पुरुषस्येव भूपालत्वनिबन्धनः, महाकविश्यवहारश्च कालिदासादीनां प्रतीयमानत्वनिबन्धनः / तस्मात् प्रतीयमानमेव काव्ये प्रधानम् / न केवलं प्रतीयमानं पुनरन्यदेवेत्येतत्कारिकासूचितौ स्वरूपविषयभेदावेव, यावद्भिन्नसामग्रीवेद्यत्वमपि प्रतीयमानस्य वाच्यातिरिक्तत्वसाधनं प्रमाणमस्तीत्याह 15 शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते / वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् // " यो यज्ञानसामग्रीव्यतिरिक्तसामग्रीसंवेद्यः स तस्माद्भिन्नः / रेस इव रूपात् / वाच्यज्ञानसामग्रीव्यतिरिक्तसामग्रीसंवेद्यश्च प्रतीयमानः / इदानीमग्रे प्रतिपादितमपि प्राधान्यं पुनस्तस्यैव, तन्नान्यस्येति दर्शयति "सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन / यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थो महाकवेः // " - प्रत्यभिज्ञेयौ इति / अर्हार्थे कृत्यः / महाकवेः इति / यो महाकविरहं भूयासमित्याशंसते / 1. शास्त्रेतिहासेभ्यः काव्यस्य // 2. यदाह भट्टनायकः वाग्धेनुर्दुग्ध एतं हि रसं यद् बालतृष्णया / तेन नास्य समः स स्याद् दुह्यते योगिभिर्हि यः / / तदावेशेन विनाऽप्याक्रान्त्या हि योगिभिर्दुह्यते // 3. व्याकरणम् / अभिधानकोशः // 4. प्रकरणादिज्ञस्वरहितेनेत्यर्थः॥ 5 मधुरादिः // 6. व्यङ्गयः // 7 प्रसिद्धशब्दार्थविलक्षणौ व्यङ्गयव्यञ्जकरूपौ। 8 सुप्रयुक्ताभ्यां व्यङ्गयव्यञ्जकाभ्यामेव हि महाकवित्वलाभो भवति //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy