________________ शब्दालङ्कारदर्शनम् 111 तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्याक्षिप्तः प्रकाशते / न तु साक्षाच्छब्दव्यापारविषय इति वाच्याद्विभिन्न एव / यथा च वाच्यसामर्थ्याक्षिप्तत्वं न तु साक्षाच्छब्दव्यापारविषयत्वं रसादेस्तथा स्वशब्दवाच्यतालक्षणे रसदोषे दर्शितमेव / एवं प्रतीयमानं पुनरन्यदेव वाच्यादस्तीति प्रतिपाद्य तस्यैव काव्यात्मत्वमितिहासव्याजेन दर्शयति काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा / क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः / / काव्यस्य इति विविधवाच्यवाचकरचनाचारुण इत्यर्थः / आत्मा इति सारभूतः / स एव इति / प्रतीयमानमात्रेऽपि प्रक्रान्ते तृतीय एव स ध्वनिरिति मन्तव्यमितिहासबलात् / तेन रस एव वस्तुत आत्मा, वस्त्वलङ्कारध्वनी तु सर्वथा रसं प्रति पर्यवस्यत 10 इति वाच्यादुत्कृष्टौ तावदित्यभिप्रायेण ध्वनिः काव्यस्यात्मेति सामान्येनोक्तमिति / यत् यन्महिम्ना स्फुरति तत्तत्र सारभूतं, शरीरे इव जीवितम् / व्यङ्गयमहिम्ना च काव्यं स्फुरितमिति / न च हेतुरसिद्ध इत्यागमेन संवादयति-तथा चादिकवेः इति / आदिकवेल्मिीकेः। कौञ्च-इति / क्रौञ्चस्य द्वन्द्ववियोगेन सहचरीहननोद्भूतेन साहचर्यध्वंसेन उत्थितो यः शोकः स्थायिभावो, निरपेक्षभावत्वाद्विप्रलम्भशङ्गारोचितरतिस्थायिभावादन्य एव, स एव 15 तथाभूतविभावतदुत्थाऽऽक्रन्दाद्यनुभावचर्वणया हृदयसंवादतन्मयीभवनक्रमादास्वाद्यमानतां प्रतिपन्नः, करुणरसरूपता लौकिकशोकव्यतिरिक्तां स्वचित्तद्रुतिसमास्वाद्यसारां प्रतिपन्नः, रसपरिपूर्णकुम्भोच्छननवञ्चित्तवृत्तिनिष्पन्दस्वभावां वाग्विलापादिवत्समयानपेक्षित्वेऽपि चित्तवृत्तिव्यञ्जकत्वादिति नयेनाकृतकतयैवावेशवशात् , समुचितच्छन्दोवृत्तादिनियन्त्रितश्लोकरूपतां प्राप्तः // मा निषाद प्रतिष्ठां त्वमलब्धाः शाश्वतीः समाः / 20 न तु मुनेः शोक इति मन्तव्यम् / एवं हि सति तदुःखेन सोऽपि दुःखित इति कृत्वा रसस्यात्मतेति निरवकाशं भवेत् , न च दुःखसन्तप्तस्यैषा दशेति / एवमस्येतिहासस्य 1. साहचर्यधंस // 2. यथा वाग्विलापादयः कस्मिश्चिदभीष्टे वस्तुनि विनष्टे एवमहममून् विदधामीति अभिसन्धिं विनाऽपि आवेशवशादकृतका जायन्ते, अर्थनिरपेक्षाणां वर्णरचनादीनां धनिविशेषाणां च काकुप्रभृतीनां चित्तवृत्तिव्यञ्जकत्वाभ्युपगमात् , संकेतमनपेक्ष्य प्रवृत्ता अपि चित्तवृत्तेय॑ञ्जकाश्च, तथाऽस्मिन्नर्थे इदं छन्दो वृत्तम् अयं शब्द इयं च रचनेत्येवमभिसन्धिमन्तरेणाऽपि या समुचितच्छन्दोवृत्तादिनियन्त्रितश्लोकरूपता, एतदुपज्ञनिखिलकविकाव्यविलक्षणा चित्तवृत्तिव्यञ्जिका तां प्राप्त इत्यर्थः /