________________ 11. कल्पलताविवेके . ___ अत्र निन्दायां वाच्यायां स्तुतिः / हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशोऽपरः परहिताधाने गृहीतव्रतः / तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धाऽयशो भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरोः // इति / स्तुतौ वाच्यायां निन्दा च व्यङ्गया / एवं वाच्यव्यङ्गययोर्धार्मिकपान्थप्रियतमाऽभिसारिकाश्यामलाङ्गनृपतितोयधिविषयैक्येऽपि स्वरूपविरोधाद्भेद इति प्रतिपादितम् / अधुना तु विषयभेदादपि व्यङ्गयस्य वाच्याद्भेदः प्रतिपाद्यते / यथा . 10 कस्स व न होइ रोसो दठूण पियाए सव्वणं अहरं / सभमरपउमग्धाइरिं' वारियवामे सहसु इण्हि // . अनीर्ष्यालोरपि नै भवति रोषो दृष्दैवाकृत्वाऽपि कुतश्चिदेवापूर्वतया प्रियायाः सत्रणमधरं विलोक्य / सभ्रमरपद्माघ्राणशीले, शीलं हि कथञ्चिदपि वारयितुं न शक्यम् / वारिते वारणायां वामे तदनङ्गीकारिणि / सहस्वेदानीमुपालम्भपरम्परामित्यर्थः / अत्रायं भावः / 15 काचिदविनीता कुतश्चित् खण्डिताधरा निश्चिततत्सविधसन्निधाने तद्भर्तरि तदनवलोक्यमाने इव कयाचिद्विदग्धसख्या तद्वाच्यतापरिहारायैवमुच्यते / सहस्वेदानीम् इति वाच्यम् अविनयवतीविषयम् / भर्तृविषयं त्वपराधो नास्तीत्यावेद्यमानं व्यङ्गयम् / सहस्वेत्यपि च तद्विषयं व्यङ्गयम् / तस्यां प्रियतमेन गाढमुपालभ्य मानायां तव्यलीकशङ्कितप्रातिवेश्मिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यङ्गयम् / 20 तत्सपल्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्यातिशयख्यापनं प्रियाया इति शब्द बलादिति सपत्नीविषयं व्यङ्गयम् / सपत्नीमध्ये इयता खलीकृताऽस्मीति लाघवमात्मनि ग्रहीतुं न युक्तं, प्रत्युतायं बहुमानः, सहस्व शोभस्वेदानीमिति सखीविषयं सौभाग्यख्यापनं व्यङ्गयम् / अद्ययं तव प्रच्छन्नानुरागिणी हृदयवल्लभा इत्थं रक्षिता, पुनः प्रकटदशनरदनविधिरत्र न युक्त इति तचौर्यकामुकविषयं सम्बोधनं व्यङ्ग्यम् / इत्थं मयैतदपहृतमिति 25 स्ववैदग्ध्यख्यापनं तटस्थविदग्धलोकविषयं व्यङ्गयमिति / एवमन्यदप्युदाहार्यम् / द्वितीयोऽपि प्रभेदो वाच्यविभिन्नः सप्रपञ्चमग्रे दर्शयिष्यते / 1. ग्याइणि ? // 2 काका // 3. नायिकायाः / / 4. अविनीतया // 5 एतां विना नाम्यत्र तवाऽपि निर्वृतिर्भविष्यतीति क्षमस्व // 6. भर्तृ // 7. उक्तेन // 8. पूर्वोक्ताऽविनीता //