________________ . 115 शब्दालङ्कारदर्शनम् प्राधान्येन प्रतीयते, समारोपितैनायिका-नायक-व्यवहारयोर्निशा-शशिनोरेव वाक्यार्थत्वात् / अयमर्थः / अत्र यद्यपि शब्दो वाध्यमर्थं निर्वाह्य द्वितीयमर्थमवगमयति, तथापि तेनार्थेन चेतनवृत्तान्तरूपेणाचेतनवृत्तान्तरूपोऽर्थ उपस्क्रियते इति वाच्यस्यैव प्राधान्यम् / यद्यप्यत्र वाच्यार्थापेक्षया चेतनवृत्तान्तरूपत्वाद् व्यङ्ग्योऽर्थश्चारुस्तथापि न स पृथक् सत्तां लभते / विशेष्यपदयोरेकार्थवाचित्वात् / इति वाच्यसंस्कारकत्वेनाऽस्य स्थितिरिति वाच्यस्यैव प्राधा- 5 न्यम् / 'गावो वः पावनानाम्' इत्यादौ तु विशेष्यपदमप्युभयार्थाभिधायीति वाक्यार्थयोरुपमानोपमेयभावो व्यङ्ग्य इत्यलङ्कारस्य प्राधान्यमिति तत्र ध्वनिः / श्लोकव्याख्यानं च मूलग्रन्थे रूपकालङ्कारे वक्रोक्तो मतान्तरप्रदर्शनेन कृतमस्तीति तत एवावसेयम् / आक्षेपेऽपि व्यङ्ग्यविशेषाक्षेपिणो वाच्यस्यैव चारुत्वं, प्राधान्येन वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते / तत्र हि शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेधरूपो य आक्षेपः स एव व्यङ्ग्यविशेष- 10 माक्षिपन् मुख्य काव्यशरीरम् / यथा बालय णाहं दुई तीए पियोऽसि त्ति णऽम्ह वावारो / सा मरइ तुज्झ अअसो एअं धम्मक्खरं भणिमो // इत्यादावुक्तविषये तावन्नास्ति व्यङ्ग्यसम्भावना / सुहअ विलंबसु थोरं जाव इमं विरहकायरं हिअयं / संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो // इत्यादौ वक्ष्यमाणविषये तु यद्यप्यस्ति व्यङ्ग्यं, तथाऽपि न तत्प्रधानम् / तथा हि-व्यङ्ग्येऽपि निषेध्ये स्थिते वाच्यमेव निषेधरूपं प्राधान्येनास्ते, तेनैव व्यपदेशात् / प्रधानेन हि व्यपदेशा भवन्तीत्याहुः / एवं यत्र लब्धसत्ताकं वाच्यं व्यङ्ग्यस्य व्यञ्जकं तत्रापि प्राधान्यादाक्षेपोऽलङ्कार 20 एव / यत्तु भामहेनोदाहृतम्-'अहं त्वा यदि नेक्षेय' इति / तत्र वाच्यं 'म्रिये' इति व्यङ्ग्येन विना सत्तामेव न लभत इति का तत्र वाच्यायमाने व्यङ्ग्ये ध्वनिसम्भावना / अनुक्तनिमित्तायामपि विशेषोक्तौ 'आहूतोऽपि सहायैः' इत्यादौ व्यङ्ग्यस्य प्रकरणसामर्थ्यात् प्रतीतिमात्रं, न तु तत्प्रतीतिनिमित्ता काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यम् / अत्र च यैः शीतार्त्तत्वं निमित्तं कथ्यते तन्मतेनास्ति व्यङ्ग्यप्राधान्यम् / प्रस्थानादपि 25 निद्राकरणं प्रियासमागमे लघुरुपायः स्वप्नदर्शनादित्यपि यैरभिप्रायः कल्प्यते तैर्व्यङ्ग्योपस्कृतं वाच्यमेव प्रधानमिति नापह्नोतव्यम् / अचिन्त्यनिमित्तोक्तनिमित्तयोस्तु अचिन्त्यत्वादुक्तत्वाच्च निमित्तस्य व्यङ्यसम्भावनैव नास्तीति तृतीयैव शङ्किता। .. 1. नायिकाया नायके यो व्यवहारः स निशायां समारोपितः / नायिकायां नायकस्य यो व्यवहारः स शशिनि समारोपित इति नैकशेषः // 2. सुहय विलंबसु थोवम् इत्यादौ // .