________________ शब्दालङ्कारदर्शनम् प्रभेदो वाच्याहूर विभेदवान् / स हि वाच्ये विधिरूपे कदाचित् प्रतिषेधरूपो यथा-भम धम्मिय इति / कस्याश्चित् सङ्केतस्थानं जीवितसर्वस्वायमानं धार्मिकसञ्चरणान्तरायदोषात्तदवलुप्यमानपल्लवकुसुमादिविच्छायीकरणाच्च परित्रातुमियमुक्तिः / तत्र स्वतःसिद्धमपि भ्रमणं श्वभयेनापोदितमिति प्रतिप्रसवात्मको निषेधाभावरूपः, न तु नियोगप्रैषादिरूपोऽत्र विधिः / अतिसर्गप्राप्तकालयोर्बयं लोट् / अतिसृष्टोऽसि प्राप्तस्ते भ्रमणकालः / धार्मिक- 5 इति / कुसुमाग्रुपयोगार्थ युक्तं ते भ्रमणम् / विश्रब्धः इति / शङ्काकारणवैकल्यात् / स इति / यस्ते भयप्रकम्प्राम् अङ्गलतिकाम् अकृत / अद्य इति / दिष्टया वर्द्धसे इत्यर्थः / मारितः इति। पुनरस्यानुष्ठानम् / तेन इति / यः पूर्वं कर्णोपकर्णिकया त्वयाऽप्याकर्णितो गोदावरीकच्छगहने प्रतिवसतीति / पूर्वमेव हि तद्रक्षायै एतत्तयोपश्रावितोऽसौ, अधुना तु दृप्तत्वात्ततो गहनान्निःसरतीति प्रसिद्धगोदावरीपरिसरानुसरणमपि तावत् कथाशेषीभूतम्, 10 का कथा तल्लतागहनप्रवेशाशङ्कायाः / तत्र भावतदभावयोः साक्षाद्विरोधाद्वाच्याद् व्यङ्गयस्य स्फुटमेवान्यत्वमित्यर्थः / क्वचित् प्रतिषेधरूपे विधिरूपो यथा अत्ता एत्थ णुमज्जइ एत्थ अहं दियसयं पुलोएहि / मा पहिय रत्तिअंधय सेजाए महं णुमजिहिसि / / श्वश्रूरत्र शेतेऽथवा निमज्जति, अत्राहम् , दिवसकं प्रलोकय, मा पथिक रात्र्यन्ध 15 शय्यायामावयोर्मात्रीः शयिष्ठा वा। मह इति निपातोऽनेकार्थवृत्तिरत्र न तु ममेति। एवं हि विशेषवचनमेवाशङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् / काञ्चित् प्रोषितपतिका तरुणीमवलोक्य प्रबुद्धमदनाङ्करः सम्पन्नः पान्थोऽनेन निषेधद्वारेण तयाऽभ्युपगत इति / निषेधाभावोऽत्र विधिः, न तु निमन्त्रणरूपोऽप्रवृत्तप्रवर्तनास्वभावः / सौभाग्याभिमानखण्डनाप्रवेशात् / तत्र श्वश्रूरसहिष्णुर्न तु माता, तेन तु गुप्तमभिलाषः पोषणीयः / न च सर्वथा 20 भयदेत्याह-अत्र इति दूरे / सा च शेते न जागर्त्ति / अत्र त्वन्मार्गनिकटे / अहम् उपभोगयोग्या / साम्प्रतं विघ्नकारीति कुत्सितं दिवसम् / तस्मात् सम्प्रति विलोकय / एहि परस्परावलोकनसुखमनुभवावः / पथिक इति / चेतितेऽपि तव न दोषावहमिति न भेतव्यम् / रात्रावधिकमदनोद्रेकादन्ध शय्याविभागानभिज्ञ शय्यायां मा शयिष्ठा अपि तु मयि / मा आवयोरपि तु मय्येव / मा शयिष्ठा अपि तु प्रहरचतुष्टयमपि निधुवनेन क्रीड / 25 क्वचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा वच्च मह चिय एक्काए होंतु णीसासरोइयव्वाइं / मा तुज्झ बि तीए विणा दक्खिण्णहयस्स जायं तु // 1. अनुमतोऽसि // 2. भ्रमण // 3. ज्ञातेऽपि खयि // .