________________ 106 कल्पलताविवेके * अन्यद् इति वाच्यादित्यर्थः / यत्तद् इति यत् सहृदयहृदयसुप्रसिद्धम् / लावण्यं हि नामावयवसंस्थानाभिव्यङ्ग्यम् अवयवव्यतिरिक्तं धर्मान्तरमेव। न चावयवानामेव निर्दोषता वाग् भूषणयोगो वा लावण्यम् / पृथङ् निर्वर्ण्यमानकाणादिदोषशून्यशरीरावयवयोगिन्यामप्य लङ्कृतायामपि लावण्यशून्येयमिति, अतथाभूतायामपि कस्याञ्चिल्लावण्यामृतचन्द्रिकेयमिति 5 च सहृदयानां व्यवहारात् / अतो यथा अङ्गनासु लावण्यं पृथग् निर्वर्ण्यमानं निखिलावयव व्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः / अयमर्थः-यदेवंविधमस्ति तद्भाति / न ह्यत्यन्ताऽसतो भानमुपपन्नं, रजताद्यपि नात्यन्तमसद्भाति / अनेन सत्त्वप्रयुक्तं तावद्भानमिति / भासनात् सत्त्वमवगम्यते / तेन यद्भाति तदस्ति तथेत्युक्तं भवति / तेनायं प्रयोगार्थः-प्रसिद्धं वाच्यं धर्मिप्रतीयमानेन व्यतिरिक्तेन तद्वत् / तथा 10 भासमानत्वात् / लावण्योपेताङ्गनाङ्गवत् / - ननु लावण्यं तावद् व्यतिरिक्त प्रथितं प्रतीयमानं किं तदित्येव न जानीमो दूरे तु व्यतिरेकप्रथेति तथाभासमानत्वमसिद्धो हेतुरिति / नैवम् / स ह्यर्थो वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रमलङ्कारा रसादयश्चेत्यनेकप्रभेदभिन्नो दर्शयिष्यते / तथाहि-वाच्यसामर्थ्याक्षिप्तमिति भेदत्रयव्यापकं सामान्य लक्षणम् / यद्यपि हि ध्वननं शब्दस्यैव व्यापारस्तथाऽप्यर्थसामर्थ्यस्य 15 सहकारिणः सर्वत्रानपायाद्वाच्यसामर्थ्याक्षिप्तत्वं शब्दशक्तिमूलानुरणनव्यङ्गयेऽप्यर्थसामर्थ्यादेव प्रतीयमानावगतिः / शब्दशक्तिः केवलमवान्तरसहकारिणीति / तत्र प्रतीयमानस्य तावद् द्वौ भेदौ, लौकिकः काव्यव्यापारैकगोचरश्च / लौकिको यः स्वशब्दवाच्यता कदाचिदध्यशेत / स च विधिनिषेधार्थेनेकप्रकारो वस्तुशब्देनोच्यते / सोऽपि द्विविधः / यः पूर्वं क्वापि वाक्यार्थेऽलंकारभावमुपमादिरूपतयाऽन्वभूदिदानीं त्वन20 लङ्काररूप एव, अन्यत्र गुणीभावाभावात् , स पूर्वप्रत्यभिज्ञानबलादलङ्कारध्वनिरित्यपदिश्यते, ब्राह्मणश्रमणन्यायेन / द्वितीयस्तु तद्रूपाभावेन उपलक्षितं वस्तुमात्रमुच्यते / मात्रग्रहणेन हि रूपान्तरं निराकृतम् / यस्तु स्वप्नेऽपि न स्वशब्दवाच्यो न लौकिकव्यवहारपतितः, किन्तु शब्दसमmमाणहृदयसंवादसुन्दरविभावानुभावसमुचितप्राग्विनिविष्टरत्यादिवासनानुरागसुकुमारस्वसंविदानन्दचर्वणव्यापाररसनीयरूपो रसः स काव्यव्यापारक25 गोचरो रसध्वनिरिति / स च ध्वनिः एव इति / स एव मुख्यतया आत्मेति / सर्वेष्वेव च तेषु प्रकारेषु प्रतीयमानस्य वाच्यादन्यत्वम् / तथा हि-आँधस्तावत् 1. आदिग्रहणादनुभयरूप उपमादिरूपश्च // 2 विचित्राविचित्रवस्तुशब्देनेत्यर्थः // 3. वस्तु. मात्रं हि मात्रशब्दव्यवच्छेद्येऽलंकाररूपे निरूपिते सुप्रत्येयं भवतीति पूर्वमेव द्वितीयः प्रभेदः प्राक् प्ररूपितः //