SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 104 - कल्पलताविवेके दृष्टनष्टानुसरणे इष्टानिष्टश्रुतौ तथा / इष्टार्थख्यापने चैव चिन्ताग्रस्ते तथैव च // उन्मादेऽसूयिते चैव उपालम्भे तथैव च / अव्यक्तार्थप्रवादे च कथायोगे तथैव च // उत्तरोत्तरसञ्जल्पे कार्येऽतिशयसंयुते / वीडिते व्याधिते क्रोधे दुःखे शोके तथैव च // विस्मयामर्षयोश्चैव हर्षेऽथ परिदेविते / विलम्बिता च दीप्ता च काकुर्मन्द्रा च वै भवेत् // यानि सौम्यार्थयुक्तानि सुखभावकृतानि च / मन्द्रा विलम्बिता चैव तत्र काकुर्विधीयते // यानि स्युस्तीक्ष्णरूक्षाणि दीप्ता चोच्चा च तेष्वपि / एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तभिः // हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता। , वीररौद्राद्भुतेषूच्चा दीप्ता चापि प्रशस्यते // भयानके सबीभत्से द्रुता नीचा च कीर्त्तिता / एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः // " अङ्गानि विच्छेदोऽर्पणं विसर्गोऽनुबन्धो दीपनं प्रशमनम् इति / तत्र विच्छेदो नाम विरामकृतः। अर्पणं नाम लीलायमानमधुरवल्गुस्वरेण पूरयतेव रङ्गं यत् पठ्यते। विसर्गो नाम वाक्यन्यासः / अनुबन्धो नाम पदान्तरेष्वविच्छेदोऽनुच्छ्वसनम् / दीपनं नाम त्रिस्थानशोभि 20 वर्द्धमानस्वरं च / प्रशमनं नाम तारगतानां स्वराणामवैस्वर्येणावतरणम् / एषां रसगतः प्रयोगः / हास्यशृङ्गारयोर्पणविच्छेददीपनप्रशमनसंयुक्तं पाठ्यं कार्यम् / विच्छेदप्रशमनयुक्तं करुणे / विच्छेदप्रशमनार्पणदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु / विसर्गविच्छेदार्पणयुक्तं वीभत्स-भयानकयोरिति / सर्वेषामप्येतेषां मन्द्रमध्यमतारकृतः प्रयोगस्त्रिस्थानस्थो भवति / तत्र दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोजयेत् / 25 पाठयम् इति / मन्द्रात्तारं न गच्छेत्ताराद्वा मन्द्रमिति / साकाङ्क्षम् इति / एतच्च मन्द्रादितारान्तमपरिसमाप्तवर्णालङ्कारं कण्ठोरःस्थानगतं यथा भवति तथा पठनीयम् / निराका क्षम् इति। इदं च मन्द्रादितारान्तं परिसमाप्तवर्णालङ्कारं शिरःस्थानगतं यथा भवति तथा पठनीयम् / 1. वस्तूनि // 2. चोचा रतेष्वपि ख. // 3. अकारादि // . .
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy