________________ 102 कल्पलताविवेके भवत्यपि चेत्यादि केचिद्व्याचक्षते / इहार्थकाकुस्तावद्विधिनिषेधाद्यर्थावगमिका / रसकाकुस्तु चित्तवृत्तिसूचिका / एतव्यापारद्वयशून्या तु नेपथ्यपाठवैतालीयपाठादिविषया दूरस्थाऽऽभाषणादिविषया च शोभासम्पादनदूरश्रवणादिप्रयोजना स्वरकाकुः / साऽनेन श्लोकेन लक्ष्यत इति / ते एवं प्रष्टव्याः- तावत् योऽयं स्वरकाकोर्विषय उक्तस्तत्र यद्यर्थरूपं 5 किश्चिदभिधेयं तत्रावश्यमर्थकाकुर्वा, रसकाकुर्वा / का पृथक् स्वरकाकुः / तथाहि-नेपथ्यपाठेऽपि कञ्चकी पठति, वीरोऽयमङ्गदः पठति, यौगन्धरायणः पठतीत्येवंभूतप्रकृतिचित्तवृत्यादिविशेषप्रतिपादकेनैव पाठेन भवितव्यम् / वैतालीयपाठे समुचितपराक्रमाद्युचितावसराऽऽवेदनप्रधाने ऽवश्यमर्थ आदर्तव्य एव। युक्तं चैतत् / अर्थानपेक्षायां हि किमभिनयमध्यचिन्तया / पुस्तकवाचकपाठोऽपि ह्यनुक्रियमाणोऽभिनयतामेवावलम्बते / तस्मात् काकुसामान्यलक्षणमनेन 10 क्रियत इति अन्ये / एवमपि भवत्यपि चेत्यसमर्थितं स्यात् / तद्धि पूर्वप्रक्रान्तवस्तुसमर्थने प्रयुज्यत इति मुनेः शैली / तस्मात् पूर्वोक्तस्थानत्रयसमर्थनार्थोऽयं श्लोकः / तदयमर्थः / शारीयाँ वीणायां केवलम् उरः-शिरः कण्ठंलक्षणेभ्यस्त्रिभ्य एव स्थानेभ्यो न तु षष्टयष्टेः स्वरः परित्यक्तरञ्जनात्मकगानोपयोगिस्वव्यापारः काकुभूतः सूचकरूपः संप्रवर्तते / अथ शब्दोऽवधारणे / बाह्यायां हि प्रतिबिम्बात्मिकायां वीगायां रञ्जनात्मकस्वर15 स्वरूपव्यतिरेकेग न काकुसम्पत्तिः। वीणाग्रहणं शरीरगतविवृतमध्याकाशदेशपरिग्रहार्थम् / न शरीरमात्रे स्वरनिष्पत्तिरपि तु तत्र भवा / येयं बाह्यवीणा दण्डस्थानीया उत्तरोत्तरस्थानपरम्पराविशिष्टा स्थानसोपानपङ्क्तिः सा स्वरनिष्पत्तिस्थानम् / एवं स्थानस्वरूपं विभज्य विषयभेदमादर्शयितुमाह "आभाषणं च दूरस्थे शिरसा सम्प्रयोजयेत् // नातिदूरे च कण्ठेन धुरसा च समीपतः / " शिरसा इति शिरोनिष्पन्नेन तारेण नादेनेत्यर्थः / नातिदूरे कण्ठेन इति मध्येन / उरसा समीपे मन्द्रेणेति यावत् / एवं स्थानत्रयस्य पृथगुपयोगमभिधाय युगपदर्शयति " उरसोदाहृतं वाक्यं शिरसा दीपयेद् बुधः // कण्ठेन शमनं कुर्यात् पाठ्ययोगे तु नित्यशः / " 25 मन्द्रस्वरेण पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमाप्नुयादिति श्लोकार्थः / "उदात्तश्चानुदात्तश्च कम्पितः स्वरितस्तथा / वर्णाश्चत्वार एव स्युः पाठ्ययोगे तपोधनाः // " 1. प्राकनेन // 2. अनुरणनरूपः // 3. गण्ड ग. // 4. सम्बोधनम् //