________________ ___[अथ शब्दालङ्काराः] ___ इह शिष्ट-इति / शब्दव्यवहाराभियुक्तैरनुशिष्टानामुपैदिष्टगुणदोषविवेकानां वाचामेव महिम्ना लोकव्यवहारो भवति / स च व्यवहारो न केवलं व्यवहर्तृजनस्य, यावत् शिष्टानामपि / येऽपि विदितवेदितव्यास्तेषामपि प्रसङ्गतः परावबोधने कर्तव्ये शब्दान्नान्य उपायः / इह शिष्टेत्यादिश्लोकद्वयेन संस्कृतादिभाषारूपाया जातेः शब्दालङ्कारत्वे सोपयोगत्वमुक्तम् / रचनादित्रयम् इति गुम्फनाशय्यायुक्तय इत्यर्थः / श्रव्यता इति गेयमित्यर्थः / / साकाङ्क्षनिराकाङ्क्षादि इति / अत्रायं भावः / सप्त स्वरास्त्रीणि स्थानानि चत्वारो वर्णाः द्विविधा काकुः षडलङ्काराः षडङ्गानीति पाठ्यगुणाः / तत्र द्विविधा काकुः साकाङ्क्षनिराकाङ्क्षशब्दाभ्यां साक्षादुक्ता / शेषाश्च काकोरेवोपयोगिनः पाठ्यगुणा आदिग्रहणेन संगृहीताः / तत्र काको वस्तुतः स्वरा एवोपकारिणः / तत्परिकरभूतं तु स्थानादि / स्वरेषु प्रकृतिभूतेषु काकुरूपता जन्यते / तत्र स्थानशब्देनैषां स्वरूपनिष्पत्तेराश्रयो दर्शितः। 10 उदात्तानुदात्तस्वरितकम्पितरूपतया स्वराणां यदुक्तिप्रधानत्वम् अनुरणनमयं तत्त्यागेनोच्चनीचमध्यमस्थानस्पर्शित्वमात्रं पाठ्योपयोगीति दर्शितम् / अत एव गानवैलक्षण्ये सम्पन्ने बाह्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाऽभिनयानुभावरूपतालाभाय काकुरर्थरसभेदेनाभिधीयते / तत एव काकुरूपत्वमेव सर्वत्रानुयाथि, अभिनयत्वे मुख्योपयोगात् / तथा चोत्तरत्रोच्चदीप्ताद्यलङ्कारेष्वपि काकुशब्देनैव मुनिर्व्यवहरिष्यति / काकोरेव हि प्रकारसम्पादकाः 15 परिपूर्णताधायिनोऽलङ्काराः / अलमिति पर्याप्त्यर्थः, इह न भूषणार्थः / अङ्गानि तु विच्छेदादीनि, रसमर्थ शोभादिकं च पोषयितुं काको रेवोपकारीणीत्येवं परमार्थतः काकुरेवेयं पञ्चभी रूपान्तरैः पूर्णीक्रियतें / काका च पठ्यमानस्य स्वोचितचिजडरूपार्थाभिमुख्यनयेनाभिनयत्वं दीयत इति काकुरेवात्र प्रधानमिति / तत्र च सप्त स्वराः षड्ज-ऋषभ-गान्धारमध्यम-पञ्चम-धैवत-निषादवन्तः / ते एते रसेषूपपाद्याः / 20 "हास्यशृङ्गारयोः कार्यों स्वरौ मध्यमपञ्चमौ / षड्जर्षभौ तु कर्त्तव्यौ वीरौद्राद्भुतेष्वथ // निषादवान् स गान्धारः करुणे संविधीयते / धैवतश्चापि कर्त्तव्यो बीभत्से सभयानके / त्रीणि स्थानान्युरः कण्ठः शिर इति भवन्यपि / " शारीर्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु // . उरसः शिरसः कण्ठात् स्वरः काकुः प्रवर्तते / " 1. शिष्टानां कृतानुशासनानामुप- ख. ग. // 2. अर्थकाकु-रसकाकुरूपः //