________________ . र कल्पलताविवेके येऽपि त्वद्गमनानुकारिंगतयस्ते राजहंसा गता . स्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते // प्रथमाभिलाषविप्रलम्भे पुनः स्वप्नान्तरे समुपलभ्य च सा भवन्तं मिथ्योपगृहनेविषक्तभुजा प्रबुध्य दृष्टोऽसि यत्र शयनेऽथ तदध्यशेत मुग्धा पुनः पुनरलीकनिमीलिताक्षी // ईविप्रलम्भे तु कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः ___ शिरस्याज्ञा न्यस्ता प्रतिवचनमत्या नतिमति / न दृष्टेः शैथिल्यं मिलत इति सन्तापयति मां निगूढान्तःकोपा कठिनहृदये संवृतिरियम् / . . विरहविप्रलम्भे तु तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती। निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता // करुणे. प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः / . .. व्यर्थ सम्प्रति बिभ्रता धनुरिदं त्वद्वचापदः साक्षिणा रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् // शृङ्गारानन्तरसमुचिताभिधानस्य शृङ्गाराभासनिदर्शनस्य त्यागेन योऽयं करुणस्य 20 निदर्शनोपन्यासस्तस्य प्रयोजनं माधुर्यप्रसादप्रकर्षस्य विप्रलम्भशृङ्गारवत्करुणे नियमप्रदर्श नम् / तथा च चतुर्विधं विप्रलम्भशृङ्गारं माधुर्यप्रसादप्रकर्षतया सोदाहरणमुपन्यस्य अनन्तरमेव करुण उपन्यस्तः / सम्भोगशङ्गारे तु माधुर्यप्रसादावप्रकृष्टावपीष्येते / अत एव च मध्यमसमासापि वृत्तिरभिमतैव शृङ्गाराभासे / क्षुद्रस्तापसवेष एष रचितो विश्वासहेतोर्यदा साध्वी सा किल तापसी न च हठः स्त्रीषु प्रयोज्यो मया / तत् किं भो ! विरताः स्थ मन्मथमधो वागीश्वरि श्रीननु द्रष्टव्या जनकात्मजा वपुषि मे यत्नः समाधीयताम् / / एवमन्येष्वपि रसतदाभासेषु निदर्शनान्यन्यूह्यानि / 1. सम्बद्ध // 2. सम्बोधनम् // 3. माधुर्यस्य विप्रलम्भ- ख. //