SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ गुणविवेचनम् चिजुगुप्साभावयोः शय्या शादलमासनं शुचिशिला सम द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः / इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते // एवमन्येष्वपि भावेषु तदाभासेषु च निदर्शनानि घटनीयानि / समाहितं समाधानं रसभावतदाभासानां प्रशममात्रनिबन्धनं यथा परिभ्रष्टो रागस्तव नयनयोर्दूरमधरः ____ स्फुरन् शान्तः प्राप्तच्युतिररुणिमा गण्डतलयोः / निलीनं निःश्वासैरैपि हृदय एवायततरैः प्रसादोऽन्तगूढः कठिनहृदयेऽद्यापि किमिति // अत्र क्रोधस्य प्रशमनिबन्धः। एतान्युदाहरणान्यसमासमार्गे। मध्यमसमासमार्गे तु आसन् सवितुरत्युष्णाः पद्मकिञ्जल्कपिञ्जराः / परिपीततडित्तेजःप्रसरा इव रश्मयः / / . विधायाऽपूर्वपूर्णेन्दुमस्या मुखमभूद् ध्रुवम् / . .. 15 धाता निजासनाम्भोजविनिमीलनदुःस्थितः // इदमाभिलाषिकशङ्गारव्यभिचारिणि विस्मये। यत्तत् पूर्वमुक्तं करुणविप्रलम्भशङ्गारौ मुक्त्वेत्यादि, तदभिप्रायेणैतदुदाहरणमुपन्यस्तम् / तथा हि-अत्र विस्मये शङ्गारव्यभिचारिणि व्यङ्गये माधुर्यप्रसादावप्रकृष्टौ मध्यमसमासया वृत्त्या उपदर्शितौ / यद्यपि चात्राभिलाषिकशृङ्गारो विप्रलम्भरूपत्वान्माधुर्यप्रसादप्रकर्षं प्रयुञ्जानोऽसमासामेव वृत्तिं स्वव्यभिचारि- 20 विस्मयाभिव्यक्तये समाक्षिपति तथाऽपि विस्मयसमाश्रयणेनैवात्राप्रकृष्टमाधुर्यप्रसादविषया मध्यमसमासा वृत्तिराश्रिता / विस्मयस्याव्यवहितत्वात् / विप्रलम्भशृङ्गारः पुनर्विस्मयव्यवहितत्वाद्विस्मयद्वारेण असमासां वृत्तिं प्रयुञ्जानो विस्मयेन नरन्तर्यान्मध्यमसमासवृत्त्याक्षेपिणा अपहृतविषयतया स्वनिबन्धनवृत्तिप्रयोगं प्रत्युदास्ते। अनया दिशा अन्यान्यपि निदर्शनानि द्रष्टव्यानि / अतिदीर्घसमासवति पुनर्मार्गे महाप्रलयमारुतक्षुभितपुष्करावर्तक प्रचण्डघनगर्जितप्रतिरवानुकारी मुहुः / 1. नै ग. // 2. रति // 25
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy