________________ 10 गुणविवेचनम् प्रणवेन इति ओंकारेण / दलता इति द्विधा भवता / ऊर्ध्वद्वार-इत्यादि / शिरसि शशिशकलस्य हृदि च नखपदस्योपमेयस्योक्तत्वादिति भावः / त्वदीयाम् इति / कथमन्यथा त्वं तामाद्रियसे सा च त्वामेवानुधावति / विदुषाम इति / कुत इतरथा न त्वमेनामाद्रियसे विद्वद्गहेषु चैषा दृश्यत इति / एते विद्वांसः / एषां विदुषाम् / इयं विद्वल्लक्ष्मीः / एतां विद्वल्लक्ष्मीम् / तां निजां शत्रुगृहस्थिताम् / सा निजा शत्रुगृहस्थिता। यत्र तु नास्ति 5 इति / अत्रोदाहरणानि पर्वतादिवर्णनविषयाणि सुप्रतीतान्येवेति नोदाहरिष्यन्ते / चित्ते च हट्टदि इति / अत्र टकारो भूयसोपनिबद्धः शृङ्गाराननुगुणः इति वर्णानुप्रासालङ्कारः सन्तमपि प्रकृतं शृङ्गाररसं नोपकुरुते / अत एव वक्ष्यति-वाचकमेव इति / न तु रसम् इति / असद् इति / शब्दालङ्काराणामालङ्काराणां च समवायवृत्त्या रसात्मनि अनवस्थितत्वाद्वस्तुवृत्त्यैव गुणैः समं भेदोपपत्तेः / स्वर्गमाप्तिः इति / इयं प्रधाननायिका विनापि देहान्तरेण स्वर्गप्राप्तिरित्येकगणहानिकल्पनायां साम्यदाढयं विशेषोक्तिरत्रेति / समासासमास-इति / तत्रासमासमार्गे रसभावतदाभासतत्प्रशमरूपेषु अलङ्कारेषु रसवत्प्रेयस्वदूर्जस्विसमाहितलक्षणेष्वद्भुतक्रोधबीभत्सवीराभासवर्जितेषु माधुर्यप्रसादयोः प्रकर्षोऽतीव सुखावहः सहृदयानामिति तेष्वेव नियत इष्यते / मध्यमसमासमार्गे उपमादिष्वालङ्कारेषु विभक्तिविपरिणामाध्याहारयोग्यता- 15 सन्निध्याकाङ्क्षाद्वारसमर्थनाशून्येषु करुणविप्रलम्भशृङ्गारौ मुक्त्वा सर्वेषु रसभावतदाभासतत्प्रशमालङ्कारेष्वपीमावप्रकृष्टौ माधुर्यप्रसादाविष्येते / अतिदीर्घसमासमार्गे तु शब्दालङ्कारेष्वनुप्रासादिषु जातियथासङ्ख्ययोः क्रोधरौद्रतदाभासेषु बीभत्साद्भुतवीराभासेषु चौजो नियतबन्धम् / एषां दिगवगमार्थमादितः प्रभृत्युदाहरणानि - दृष्टों दृष्टिमधो ददाति कुरुते नालापमाभाषिता _ शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते / .निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते ... जाता वामतयैवै मेऽद्य नितरां प्रीत्यै नवोढा प्रिया॥ इदं सम्भोगशृङ्गारे / विप्रलम्भशृङ्गारश्चतुष्प्रकारः / तस्य प्रवासे निदर्शनम् - . यत्वनेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं __ मेधैरन्तरितः प्रिये तव मुखच्छायानुकारः शशी / 1. श्लोकेऽस्या इति सिद्धस्योक्तत्वादियमिति विधेर्लभ्यते // 2. कारिकायां द्वितीयस्यामुपलक्षणव्याख्यानम् / क्रोधेत्यत्र रसचतुष्टयं संगृहीतं, क्रोधाभासो रौद्रो रौद्राभासो बीभत्सश्च / अत्र तु शेषवाक्ये त्रितयमुपलक्ष्यते, क्रोधेन बीभत्सस्योकत्वात् // 3. एतयोस्तयोः प्रकर्ष एव भवति यस्मात् // 4. दृष्टा ? // 5. -तयेव ख. ॥६-कारी ? // 13