________________ 96 कल्पलताविवेके न जानीमः किमाद्यं किं पश्चात्तनमिति / प्रथमोदाहृतमायं पश्चादुदाहृतं तु पश्चात्तनमिति चेत् / कामं तीनेनैव हेतुना कृत्वा चिन्तय मा भीरित्यादि यदि प्रथमं दृश्येत तत्प्रतिबिम्बतया आश्वपेहीति तदा विपरीयादेतत् / ओमिति केचित् / अन्ये त्वाहुः-यबीजमात्र माश्रित्य कविवर्णनासनाथं पश्चादुपन्यसनं तत्तच्छायायोनित्वे प्रयोजकं न पुनः पश्चादुपन्य5 सनमात्रं, तच्चाश्वपेहीत्येतदपेक्षया मा भीरित्यस्य न पुनरेतदपेक्षया तस्येति न विपर्येत्येतत् कदाचिदिति / ___ वक्तुर्वासना-इति / वक्तुः सम्बन्धिनी या वासना तस्यामेव प्रतिपत्तृहृदयानां यानि विनिविष्टकानि विशेषेण निवेशनानि तैः करणभूतैरित्यर्थः / सात्त्विक-इति / अनुभाव ग्रहणेनैव गृहीतानामपि सात्त्विकानां यदुपादानं तदमीषामत्र व्यक्ततयोद्भूतत्वप्रतीत्यर्थम् / 10 रुदित-इति / सात्त्विकोऽयमनुभावः / अत्र प्रश्नाद इति / शुभे ! कोऽयं वृद्धः ? इत्यादेः प्रश्नात् , गृहपरिवृढ इत्यादेरुत्तरात् , रात्रौ व्यपगतदृगित्यादेरनन्तरपदाच्च मुख्यमर्थमवगम्य परस्पराभिलाषरूपस्यार्थान्तरस्यावगमो गतिरित्यर्थः / / उक्तिवैचित्र्यम् इति / उक्तेः सकाशादर्थस्य वैचित्र्यमुक्तिवैचियम् / उक्तेः सकाशादर्थस्य चैवं वैचित्र्यं भवति / यद्युक्तिरपि विचित्रा भवतीति षष्ठीसमासार्थोऽन्यत्र 15 गृहीतः। स एव तु नाश्रीयते प्रकृतस्यार्थगुगस्यानभिधानप्रसङ्गात् / अत्र तु इति / पूर्वत्र हि किं सत्यमेतदित्येवं रूप एक एवार्थः कः सन्देह इति नान्यथेति / अथ किमिति च वैचित्र्येणोक्तः / किं वा प्रियादशनच्छदस्य सममन्यत् स्वादु नास्तीति ग्रहेणोक्तिः सुधादीनां स्वादुत्वाङ्गीकरणेन नागरतयेत्थं विचित्रत्वेन दर्शितेति सन्देहः / यामादिशब्दः इति / अयं हि व्रीडास्पदं ग्राम्यधर्ममाचष्टे / सुरतादिशब्दाः पुनरालिङ्गनादिवाचकतया नैकान्तेन 20 तेदभिधायका इत्यग्राम्याः / अवतारः इति / अवतारकारित्वाद्वचनमप्यवतार इति कारणे कार्योपचारः / उत्पत्त्यादिः इति / आदिग्रहणात् स्थित्यादयः / तथा च भर्तृहरिः सैव भावविकारेषु षडवस्थाः प्रपद्यते / सत्तैव पदार्थविकारेषु जायतेऽस्ति विपरिणमते विवर्द्धते अपक्षीयते विनश्यतीति षडवस्थाः प्रपद्यत इति / स्वस्तीत्युक्त-इति / अत्र प्रियविप्रयोगपरितप्यमानमानसामत 25 एव च तप्तिप्रणुत्तये दूतीकर्मार्थित्वेनोपनतां कामपि मुग्धवनितां प्रति कयाचित् परिवाजिकया विदग्धयापि मुग्धयेव स्वस्तीत्यादि यदुक्तं तदनुचितरूपत्वेन हास्यरसं व्यनक्तीति / नखं नखाग्रेण इति / अत्र लजायाः स्थितिः व्यभिचारिणोऽपि हि चळमाणस्य तावन्मात्रा, विश्रान्तावपि स्थायिचर्वणापर्यवसानोचितरसप्रतिष्ठामनवाप्यापि प्राणकत्वं भवतीति / / 1. स्वा- ग. // 2. वक्तृ- ग. 3. बुद्ध क. // 4. हि जुगुप्सास्पदम् ख, ग. // 5. ग्राम्यधर्म / 6. व्यभिचारिचर्वणामात्रा //