________________ कल्पलताविके अथाकाण्डप्रथनम् इति / ___" उद्दीपनप्रशमने यथावसरमन्तरा / " रसस्योद्दीपनं विभावादिपरिपूरणया यथा-अयं सोराया उदयणो इति सागरिकायाः, प्रशमनं च वासवदत्तातः पलायने, पुनरुद्दीपनं चित्रफलहकोल्लेखे, प्रशमनं सुसङ्गताप्रवेश 5 इत्यादि / गाढं हि अनवसरपरिमृदितो रसः सुकुमारमालतीकुसुमवज्झटित्येव म्लानिमवलम्बेत / विशेषतस्तु शृङ्गारः / यदाह मुनिः / "यद्वामाभिनिवेशित्वं यतश्चै विनिवार्यते / दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः // " इति / सुलभावमानी हि मदन इति तद्विदः / तथाहि-अभिलष्यमाणं वस्तु प्राप्तं चेत् 10 कोऽभिलाषः / तेन प्राप्तं प्राप्तमपहारितमिव गतं गतं प्राप्तमिवेत्येवं परम्पराक्रमेण विवर्द्धिष्णुरयं कामः परमां प्रीतिं प्रतनोति / न ह्यत्र कण्डूयायामिव निवृत्तिः साध्या, अपि तु भोगात्मकं सुखम् / भोगश्च सति कामे / तेन स प्रत्युत संवर्द्धनीयः / सा रतिः इति तद्धेतुत्वादित्यर्थः / वीररसादावपि यथावसरमुद्दीपनप्रशमनाभ्यां विना झटित्येवाद्भुतफुल्लकल्पे साध्ये 15 लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एव स्यात् / एवमभिहितस्य फलपर्यन्तता नयनरूपस्य व्यञ्जकत्वनिमित्तप्रकारस्य योऽशो रसस्य प्रशमनमिति तद्विरुद्धम् अकाण्डे च प्रकाशनमिति यत्तदत्रोपवर्णितम् / यस्तु रसस्योदीपनमित्यंशस्तद्विरुद्धम् अकाण्ड एव विच्छित्तिरिति यत्तदकाण्डच्छेद इति प्रदर्शयिष्यते / अपि तावद इति / आभ्यां शब्दाभ्यां दुर्योधनादेस्तद्वर्णनं दुरापास्तमिति वेणीसंहारद्वितीयाङ्कभागमेवोदाहरणत्वेन ध्वनति / अत 20 एव वक्ष्यति दैवव्यामोहितत्वम्-इति / स्खलितानि इति दोषा इत्यर्थः / अथाङ्गतिविस्तृतिः इति / यदुक्तम् . "इतिवृत्तवशायातां त्यक्त्वाऽननुगुणां स्थितिम् / / उत्प्रेक्ष्याप्यन्तराऽभीष्ट-रसोचितकथोन्नयः // स्थितिम इति / कथाशय्याम् / कथोन्नयः इति / यथा कालिदासप्रबन्धेषु / तथाहि 25 रघुवंशेऽजादीनां राज्ञां विवाहादिवर्णनं नेतिहासेषु निरूपितम् / यथा च सर्वसेनविरचिते हरि विजये कान्तानुनाथनाङ्गत्वेन पारिजाताहरणादि निरूपितमितिहासेष्वदृष्टमपि / यथा वा आनन्दवर्द्धनाचार्यविनिर्मिते अर्जुनचरिते अर्जुनस्य पातालविजयादि वर्णितमितिहासाप्रसिद्धम्। . 1. भावे // 2. कामिनो निवारणम् // 3. - दृष्टमिति ख. //