________________ A . - दोषदर्शनम् एक्कत्तो रुयइ पिया अण्णत्तो समरतूरनिग्घोसो। णेहेण रणरसेण य भडस्स दोलाइयं हिययं // रोदिति प्रियेत्यतो रत्युकर्षः, समरतूर्येति भटस्येति चोत्साहोत्कर्षः, दोलायितमिति च तयोरन्यूनाधिकतया साम्यमुक्तम् / एतच्च मुक्तकविषयमेव भवति न तु प्रबन्धविषयमिति केचिदाहुः स्म / तच्चासत् / 5 आधिकारिकेऽपि इतिवृत्ते त्रिवर्गफले समप्राधान्यस्य सम्भवनात् / तथाहि रत्नावल्यां सचिवायत्तसिद्धित्वाभिप्रायेण पृथिवीराज्यलाभ आधिकारिकं फलम् / कन्यारत्नलाभः प्रासङ्गिकम् / नायकाभिप्रायेण तु विपर्यय इति स्थिते, मन्त्रिबुद्धौ नायकबुद्धौ च स्वाम्यमात्यबुद्धयेकत्वात् फलमिति नीत्या एकीक्रियमाणायां समप्राधान्यमेव पर्यवस्यति / अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम् / निवेशने वा क्षिप्रमेवाङ्गि- 10 गतव्यभिचार्यनुवृत्तिरिति द्वितीयः / यथा कोपात् कोमलेति / अत्राङ्गिभूतायां रतावङ्गत्वेन यः क्रोध उपनिबद्धस्तत्र बद्धा दृढमिति अमर्षस्य निवेशितस्य क्षिप्रमेव रुदत्येति हसन्निति च रत्युचितेयॊत्सुक्यहर्षानुसन्धानम् / अङ्गत्वेन पुनः पुनः प्रत्यवेक्षापरिपोषं नीयमानस्याप्यङ्गभूतस्य तस्य रसस्येति तृतीयः / अत्र च तापसवत्सराजे वत्सराजस्य पद्मावती'विषयसंभोगशृङ्गार उदा- 15 हरणीकर्तव्यः / अनया दिशा अन्येऽपि प्रकारा उत्प्रेक्षणीयाः / अथ पुनः पुनर्दीप्तिरिति / तथा चोक्तम् "रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः // " आरब्ध- इति / इतिवृत्तवशादारब्धा शङ्कयमानप्राया न तु सर्वथैवोपनता विश्रान्तिविच्छेदो यस्य स तथा / आरब्धविश्रान्ते रसस्याङ्गिनोऽनुसन्धिय॑ञ्जकत्वे निबन्ध- 20 नमित्यर्थः / यथा तापसवत्सराजे / एतच्चाङ्ग्यननुसन्धानलक्षणदोषव्यतिरेकद्वारेणोपदर्शयिष्यते / एवमुक्तस्य रसप्रतिजागरणरूपस्य रसानुसन्धानस्य व्यञ्जकत्वनिबन्धनप्रकारस्य योऽशो विच्छेद आरम्भणीयः इति तद्विरुद्धम् / "परिपोषं गतस्यापि पौनःपुन्येन दीपनम्” / इति यत् प्रकाशितं तदुपजीव्यदोषोऽयमुपदर्शितः / पुनरनुसन्धान विधेयम्- 25 इति / यस्त्वंशस्तद्विरुद्धमङ्गिनोऽननुसन्धानमित्यनेन अयम एव प्रकाशयिष्यति / 1. वत्सराजपद्मा- ग. // 2 ध्वनिकारः //