________________ 86 कल्पलताविवेके प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाऽङ्गाङ्गिभावेन वा बहवो रसा उपनिबध्यन्त इति प्रसिद्धौ सत्यामपि, यः प्रबन्धानां छायातिशययोगमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसोऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः / ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्या5 शङ्कयेदमुच्यते " रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः / नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः / / " प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनरनुसन्धीयमानत्वेन स्थायी यो रसस्तस्य सकलसन्धिव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः स नाङ्गितामुपहन्ति / एतदेवो10 पपादयितुमुच्यते "कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते / तथा रसस्यापि विधौ विरोधो नैव विद्यते // " / सन्ध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्प्यते न च तत्कार्यान्तरैर्न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यमपचीयते, तथैव रस15 स्याप्येकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् / प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविध विषये प्रह्लादातिशयः प्रवर्त्तते / ननु वीरशृङ्गारयोः शृङ्गारहास्ययोः वीराद्धतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्धतयोरित्यादीनां येषां परस्परमविरोधस्तेषां भवत्वङ्गाङ्गिभावः / येषां तु परस्परं बाध्यबाधकभाव एव तेषां स कथं भवेदित्याशङ्कयाह "अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे / परिपोषं न नेतव्यस्तों स्यादविरोधिता // " वाशब्दस्यायमभिप्रायः / अङ्गिरसापेक्षया यद्यस्य रसान्तरस्योत्कर्षो निबध्यते तदाऽविरुद्धोऽपि रसो निबद्धश्चोद्यावहः / अथ तु युक्त्याऽङ्गिनि रसेऽङ्गभावनयनोपपत्तिर्घटते, तद् विरुद्धोऽपि रसो वक्ष्यमाणेन विषयभेदादियोजनेनोपनिबध्यमानो न दोषावह इति 25 विरोधाविरोधावकिञ्चित्करौ, विनिवेशनप्रकार एव त्ववधातव्यमिति / तत्राविरोधिनो रस स्याङ्गिरसापेक्षयाज्यन्तमाधिक्यं न कर्त्तव्यम् / उत्कर्षसाम्येऽपि तयोरविरोधसम्भवादित्ययं प्रथमः परिपोषपरिहारः। यथा 1. एवं सति // 2. यदि पुनः //