________________ दोषदर्शनम् सत्कविना हि प्रबन्धमुपनिबध्नता सर्वात्मना रसपरतन्त्रेण भवितव्यम् / तेत्रेतिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत्तत्तां भक्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् / न हि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित् प्रयोजनम् / इतिहासादेव तत्सिद्धेः / तथा सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षया न तु केवलया शास्त्रस्थितिसंपादनेच्छया / यथा रत्नावल्यां धीरललितस्य नायकस्य धर्माद्यविरुद्धसंभोगसेवायामनौचित्या- 5 भावात् / प्रत्युत न निःसुखः स्यादिति श्लाघ्यत्वात् / पृथिवीराज्यमहाफलान्तरानुबन्धिकन्यालाभफलोद्देशेन प्रस्तावनोपक्रमे पञ्चापि सन्धयोऽवस्थापञ्चकसहिताः समुचितसन्ध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एवं / प्रारम्भेऽस्मिन् स्वामिन इति, बीजादेव प्रभृति विश्रान्तविग्रहकथ इति, राज्यं निर्जितशत्रु इति च वचोभिरुपभोगसेवावसरोऽयमित्युपक्षेपात् प्रभृति हि निरूपितम् / अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात् स्वकण्ठेन व्यतिरेक उक्तो न तु केवलयेति / तस्योदाहरणं यथा-वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृतरसबन्धाननुगुणमपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् / यदि च परमार्थतः पर्यालोच्यते ततो मुनेरपि नेदृग्विधं मतम् / मुनिनापि हि सन्ध्यङ्गानां रसाङ्गभूतमितिवृत्तप्राशस्त्योत्पादनमेव प्रयोजनमुक्तं, न तु पुर्वरङ्गाङ्गवददृष्टसंपादनं विघ्नादिनिवारणं वा / यथोक्तम् 15 "इष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः / रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गृहनम् / / आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् / अङ्गानां षड्विधं ह्येतत् दृष्टं शास्त्रे प्रयोजनम्" // इति / 10 ततश्च " समीहा रतिभोगार्था विलासः परिकीर्तितः / " .... """|| इति प्रतिमुखसन्ध्यङ्गविलासलक्षणो रतिभोगशब्दः आधिकारिकरसोचितस्थायिभावोपबृंहकविभावाद्युपलक्षणार्थत्वेन प्रयुक्तो नारायणकविना। “यथातत्त्वं नाधिगतार्थ" इति “अधिकृतो ह्यत्र वीररस” इति एवं कारिकाद्वयेनोक्तस्याधिकावापलक्षणस्य 25 व्यञ्जकत्वकारणप्रकारस्य विरुद्धं " विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम्" इति यत् प्रकाशितं तदाश्रित्य दोषोऽयमभिहितः / 1. एवं सति // 2. सन्ध्यङ्गात् //