SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 10 कल्पलताविवेके प्यस्थिरत्वगुणविशिष्टो मत्ताङ्गनापाङ्गभङ्ग एवोपमानभावेनात्र विवक्षितः / तस्यैव तद्गुणविशिष्टस्योपमानतोपपत्तेः / यदि वा मत्ताङ्गनापाङ्गभङ्गेत्येतत् शृङ्गारं प्रति सम्भाव्यमानविभावानुभावरूपमपि प्रसिद्धतद्गुणोपमानतयोपात्तं शान्तमेव पुष्णाति, न तु शृङ्गारमित्यञ्जसतयैव व्याख्येयम् / 5 नरन्तर्यस्याभावाद् इति / शृङ्गारस्याप्रतीतेः कयो:रन्तयं स्यादिति भावः / आश्रयैक्ये इति / तथा चोक्तम् “विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् / स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता // " रसान्तरेण इति / यदुक्तम् " एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् / रसान्तरव्यवधिना रसो व्यङ्गयः सुमेधस। // " एकाश्रयत्वेन निमित्तेन यो न विरोधी किन्तु निरन्तरत्वेन निमित्तेन विरोधमेति स तथाविधविरुद्धरसद्वयाविरुद्धेन रसान्तरेण मध्ये निवेशितेन युक्तः कार्य इत्यर्थः / शान्तः इति / ननु नास्त्येव शान्तो रसस्तस्य हि स्थाय्येव नोपदिष्टो मुनिना / 15 मैवम् / शान्तो हि तृष्णाक्षयसुखस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव / तृष्णानां विषयाभिलाषाणां यः क्षयः सर्वतो निवृत्तिरूपो निर्वेदस्तदेव सुखं तस्य स्थायीभूतस्य यः परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः प्रतीयते / स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले सम्भाव्यत एव / तथा चोक्तम् "यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् / तृष्णाक्षयसुखस्यैते नार्यतः[१] षोडशी कलाम् // " अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते / तच्चासत् / अभावस्य प्रसज्यप्रतिषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् / पर्युदासे त्वस्मत्पक्ष एवायम् / अन्ये तु ___" स्वं स्वं निमित्तमासाद्य शान्तादुत्पद्यते रसः / 25 . पुनर्निमित्तापायेन शान्त एव प्रलीयते // " इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वभावं शान्तमाचक्षाणा अनुपजातविशेषान्तरं चित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते / एतच्च नातीवास्मत्पक्षादूरम् / 1. रसः // 2. सह // 3. व्यवधानेन //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy