SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ दोषदर्शनम् प्रागभावप्रध्वंसाभावकृतस्तु विशेषः / युक्तश्च प्रध्वंस एव तृष्णानाम् / यथोक्तम्-" वीतरागजन्मादर्शनाद" इति / प्रतीयत एव इति / मुनिनाप्यङ्गीक्रियत एव कचिच्छम इत्यादि वदता / न च तदीया पर्यन्तावस्था व्यावर्णनीया, येन सर्वचेष्टोपरमाद् अनुभावाभावेनाऽप्रतीयमानता स्यात् / शृङ्गारादेरपि हि फलभूमावव्यावर्णनीयतैव / पूर्वभूमौ तु “[तस्य] प्रशान्तवाहिता- 5 संस्कारात्" " तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः” इतिसूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधुरोद्रहनादिलक्षणा वा शान्तस्यापि जनकादेईष्टैवेत्यनुभावसद्भावात् यमादिमध्यसम्भाव्यमानभूयोव्यभिचारिसद्भावाच्च प्रतीयत एव / न न प्रतीयते / नास्य विभावाः सन्तीति चेन्न / प्रतीयत एव तावदसौ' / तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहाध्यात्मरहस्यशास्त्रवीतरागैपरिशीलनादिभिर्विभावैरिति / 10 ननु तत्र हृदयसंवादाभावादस्यमानतैव नोपपन्ना / क एवमाह से नास्तीति / यतः प्रतीयत एवेत्युक्तम् / ननु प्रतीयते सर्वस्य तु श्लाघास्पदं न भवति। तर्हि वीतरागाणां शृङ्गारो न श्लाघ्य इति सोऽपि रसत्वाच्च्यवताम् / अयमर्थः / यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावताऽसौ अलोकसामान्यमहानुभाँवचित्तवृत्तिविशेषवत् प्रतिक्षेप्तुं शक्यः / ननु धर्मप्रधानोऽसौ वीर एवेति सम्भाव्यते / न वीरस्याभिमानमयत्वेन व्यवस्था- 15 नात् / उत्साहो ह्ययमेवंविध इत्येवम्प्राणः इत्यर्थः / शान्तस्य चाहङ्कारप्रशमैकरूपतया स्थितेः / तयोरीहामयत्वनिरीहत्वेनात्यन्तविरुद्धयोरपि यद्यैक्यं परिकल्प्यते तद् वीररौद्रयोरपि तथाप्रसङ्गः / तयोहि अत्यन्तविरोधोऽपि नास्ति / धर्मार्थकामार्जनोपयोगित्वलक्षणस्य रूपस्य समानत्वात् / नन्वेवं दयावीरः कोऽभिधीयतां धर्मवीरो दानवीरो वा / न चासौ कश्चित् / 20 शान्तस्यैवेदं नामान्तरकरणम् / तथा हि मुनिः " दानवीरं युद्धवीरं धर्मवीरं तथैव च / रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव च // " इत्यागमपुरःसरं त्रैविध्यमेवाभ्यधादित्यस्ति शान्तो रसः / क्रमप्रसरसम्भावना इति / शान्तादनन्तरमद्भुतस्ततः शृङ्गार इत्यनेन क्रमेण 25 शृङ्गारस्य प्रसरः सम्भाव्यते इत्यभिप्रायेणाद्भुतमन्तरीकृत्य शृङ्गारो निबद्धः / क्रमप्रसरमेव दर्शयति-अहो गीतमित्यादिना / एकस्मिन्नपि बाक्ये इति / तथा चोक्तम् 1. शान्तो रसः // 2. मुनिः // 3. हृदयसंवादः // 4. शान्तस्य // 5. महाप्रभावाः पुरुषा भीमादयः //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy