________________ कल्पलताविवेक "कथाशरीरमुत्पाद्य वस्तु कार्य तथा तथा / यथा रसमयं सर्वमेव तत्प्रतिभासते // " रसमयत्वसंपादने चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणम् / तद्दर्शितमेव / किञ्च " सन्ति सिद्धरसप्रख्या ये च रामायणादयः / कथाश्रया न तैयोंज्या स्वेच्छा रसविरोधिनी // " सिद्ध-इति / सिद्ध आस्वादमात्रशेषो न तु भावनीयो रसो येषु / कथानाम् आश्रया इतिहासाः / तैः इति सहार्थे / तैः सह स्वेच्छा न योज्या / सहार्थश्चात्र विषयविषयिभावस्तेन तेषु कथाश्रयेषु स्वेच्छैव तावन्न योज्या / कथञ्चिद्वा यदि योज्यते तत्तत्प्रसिद्धरसविरुद्धा न योज्या। यथा रामस्य वीर[धीर ? ]ललितत्वयोजनेन नाटिकानायकत्वं कश्चित् 10 कुर्यादिति तदत्यन्तमसमञ्जसम् / यदुक्तम् रामाभ्युदये' यशोवर्मणा-कथामार्गे न चातिक्रमः / स्वेच्छाऽपि यदि वा योज्यते रसविरोधिनी न योज्येति प्रथमो व्यञ्जकत्वनिमित्तप्रकारः / अन्यांश्च स्वावसरेष्वेव दर्शयिष्यामः / एवमुक्तस्य कथापरीक्षणलक्षणस्य विभावाद्यौचित्यस्य व्यञ्जकत्वनिबन्धनस्य यद् विरुद्धम् __"प्रबन्धे मुक्तके वापि रसादीन् बढुमिच्छना / यत्नः कार्यः सुमतिना प्ररिहारे विरोधिनाम् // " इत्युपक्रम्य ___ "विरोधिरससम्बन्धिविभावादिपरिग्रहः / " इत्यन्तेनै प्रकाशितं तदुपजीव्यप्रतिकूलविभावादिग्रहनामा दोषोऽयमभिहितः / .दुर्वारा इति / अत्र कृतान्तोऽक्षम इति वैराग्यकथासंसूचकम् / चिन्ताया एव 20 प्रधानताम् इति / अत्र शृङ्गाराङ्गेन वाक्यार्थसमापनाद्विवक्षितः शृङ्गारः एव लब्धप्रतिष्ठ इति तद्विरुद्धवीररसगतभावनिबन्धो वाच्यमानतया तत्परिपोषक एव यद्यपि शृङ्गारवीरयोर्न परस्परं विरोधस्तथाप्युत्साहप्रकृतेर्वीरोदात्तस्य तथाविधकार्यकारित्वमेवानुगुणमित्यनुचितशृङ्गारोपनिबन्धो विरुध्यत इति युक्तं वीरशृङ्गारयोविरोधापवादत्वेनेदमुदाहरणमिति / द्वितीय-इति / विपक्षभूतवैराग्यविभावाद्यवधारणेऽपि ह्यशक्यविच्छेदत्वेन. दाढर्य25 मेवानुरागस्योक्तं भवति इति भावः / तदेवम् " विवक्षिते रसे लब्ध-प्रतिष्ठे तु विरोधिनाम् / बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरेच्छला // " इति / 1. नाटके // 2. -मिच्छता ख. ग // 3. मुले “बनेन” इति // . 4 व्यभिचारी // 15 5. निर्दोषा॥ . .